कामरूपधराः शूराः सुभीमा भीमदर्शनाः। राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः
काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः। सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम्
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा। स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति
ततो वयमितस्तूर्णं शूलशक्तिगदाधराः। चापबाणासिहस्ताश्च त्वरितास्तत्र यामहे
आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम्। अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम्
एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ। अवश्यमपनीतेन जहतामेव जीवितम्
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्। अब्रवीत् परमक्रुद्धो रावणं लोकरावणम्
सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः। अहमेको हनिष्यामि राघवं सहलक्ष्मणम्
सुग्रीवं सहनूमन्तं सर्वांश्चैवात्र वानरान्। ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः
क्रुद्धः परिलिहन् सृक्कां जिह्वया वाक्यमब्रवीत्। स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः
एकोऽहं भक्षयिष्यामि तां सर्वां हरिवाहिनीम्। स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम्
अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम्। साङ्गदं च हनूमन्तं सर्वांश्चैवात्र वानरान्
thumb|नवमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवमः सर्गः ॥६-
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः। सुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। इन्द्रजिच्च महातेजा बलवान् रावणात्मजः
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः। धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः
परिघान् पट्टिशान् शूलान् प्रासान् शक्तिपरश्वधान्। चापानि च सुबाणानि खड्गांश्च विपुलाम्बुभान्
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः। अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्। कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता
तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः। अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते। तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्। जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्। गतिं हनूमतो लोके को विद्यात् तर्कयेत वा
बलान्यपरिमेयानि वीर्याणि च निशाचराः। परेषां सहसावज्ञा न कर्तव्या कथंचन
किं च राक्षसराजस्य रामेणापकृतं पुरा। आजहार जनस्थानाद् यस्य भार्यां यशस्विनः
खरो यद्यतिवृत्तस्तु स रामेण हतो रणे। अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम्
एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत्। आहृता सा परित्याज्या कलहार्थे कृते नु किम्
न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्। पुरीं दारयते बाणैर्दीयतामस्य मैथिली
यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी। नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम्