तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः। प्रत्युवाच महातेजा विश्वामित्रो महामुनिः
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव। यस्यैतदाश्रमपदं शप्तं कोपान्महात्मनः
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः। आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः
स चात्र तप आतिष्ठदहल्यासहितः पुरा। वर्षपूगान्यनेकानि राजपुत्र महायशः
तस्यान्तरं विदित्वा च सहस्राक्षः शचीपतिः। मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत्
ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते। संगमं त्वहमिच्छामि त्वया सह सुमध्यमे
मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन। मतिं चकार दुर्मेधा देवराजकुतूहलात्
अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना। कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो
आत्मानं मां च देवेश सर्वथा रक्ष गौतमात्। इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्
सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्। एवं संगम्य तु तदा निश्चक्रामोटजात् ततः
स सम्भ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति। गौतमं स ददर्शाथ प्रविशन्तं महामुनिम्
देवदानवदुर्धर्षं तपोबलसमन्वितम्। तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्
गृहीतसमिधं तत्र सकुशं मुनिपुंगवम्। दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत्
अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः। दुर्वृत्तं वृत्तसम्पन्नो रोषाद् वचनमब्रवीत्
मम रूपं समास्थाय कृतवानसि दुर्मते। अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि
गौतमेनैवमुक्तस्य सुरोषेण महात्मना। पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्
तथा शप्त्वा च वै शक्रं भार्यामपि च शप्तवान्। इह वर्षसहस्राणि बहूनि निवसिष्यसि
वातभक्षा निराहारा तप्यन्ती भस्मशायिनी। अदृश्या सर्वभूतानामाश्रमेऽस्मिन् वसिष्यसि
यदा त्वेतद् वनं घोरं रामो दशरथात्मजः। आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि
तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता। मत्सकाशं मुदा युक्ता स्वं वपुर्धारयिष्यसि
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्। इममाश्रममुत्सृज्य सिद्धचारणसेविते। हिमवच्छिखरे रम्ये तपस्तेपे महातपाः
thumb|एकोनपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-
अफलस्तु ततः शक्रो देवानग्निपुरोगमान्। अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान्
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः। क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्
अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता। शापमोक्षेण महता तपोऽस्यापहृतं मया
तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः। सुरकार्यकरं यूयं सफलं कर्तुमर्हथ
शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः। पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः। मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत
अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति। भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः। अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः। उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्