दानवेन्द्रो महाबाहो वीर्योत्सिक्तो दुरासदः। विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः
निर्जितास्ते महाबाहो नागा गत्वा रसातलम्। वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः। त्वया संवत्सरं युद्ध्वा समरे दानवा विभो
स्वबलं समुपाश्रित्य नीता वशमरिंदम। मायाश्चाधिगतास्तत्र बह्व्यो वै राक्षसाधिप
शूराश्च बलवन्तश्च वरुणस्य सुता रणे। निर्जितास्ते महाभाग चतुर्विधबलानुगाः
मृत्युदण्डमहाग्राहं शाल्मलीद्रुममण्डितम्। कालपाशमहावीचिं यमकिंकरपन्नगम्
महाज्वरेण दुर्धर्षं यमलोकमहार्णवम्। अवगाह्य त्वया राजन् यमस्य बलसागरम्
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः। सुयुद्धेन च ते सर्वे लोकस्तत्र सुतोषिताः
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः। आसीद् वसुमती पूर्णा महद्भिरिव पादपैः
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे। प्रसह्य ते त्वया राजन् हताः समरदुर्जयाः
तिष्ठ वा किं महाराज श्रमेण तव वानरान्। अयमेको महाबाहुरिन्द्रजित् क्षपयिष्यति
अनेन च महाराज माहेश्वरमनुत्तमम्। इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः
शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम्। गजकच्छपसम्बाधमश्वमण्डूकसंकुलम्
रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम्। रथाश्वगजतोयौघं पदातिपुलिनं महत्
अनेन हि समासाद्य देवानां बलसागरम्। गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः
पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा। गतस्त्रिविष्टपं राजन् सर्वदेवनमस्कृतः
तमेव त्वं महाराज विसृजेन्द्रजितं सुतम्। यावद् वानरसेनां तां सरामां नयति क्षयम्
राजन्नापदयुक्तेयमागता प्राकृताज्जनात्। हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्
thumb|अष्टमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टमः सर्गः ॥६-
ततो नीलाम्बुदप्रख्यः प्रहस्तो नाम राक्षसः। अब्रवीत् प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा
देवदानवगन्धर्वाः पिशाचपतगोरगाः। सर्वे धर्षयितुं शक्याः किं पुनर्मानवौ रणे
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता। नहि मे जीवतो गच्छेज्जीवन् स वनगोचरः
सर्वां सागरपर्यन्तां सशैलवनकाननाम्। करोम्यवानरां भूमिमाज्ञापयतु मां भवान्
रक्षां चैव विधास्यामि वानराद् रजनीचर। नागमिष्यति ते दुःखं किंचिदात्मापराधजम्
अब्रवीत् तु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः। इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम्
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च। श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम्
ततोऽब्रवीत् सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः। प्रगृह्य परिघं घोरं मांसशोणितरूषितम्
किं नो हनूमता कार्यं कृपणेन तपस्विना। रामे तिष्ठति दुर्धर्षे सुग्रीवेऽपि सलक्ष्मणे
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्। आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्
इदं ममापरं वाक्यं शृणु राजन् यदिच्छसि। उपायकुशलो ह्येव जयेच्छत्रूनतन्द्रितः