मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः। तस्माद् वै रोचये मन्त्रं रामं प्रति महाबलाः
मन्त्रस्त्रिभिर्हि संयुक्तः समर्थैर्मन्त्रनिर्णये। मित्रैर्वापि समानार्थैर्बान्धवैरपि वाधिकैः
सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत्। दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्
एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः। एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्
गुणदोषौ न निश्चित्य त्यक्त्वा दैवव्यपाश्रयम्। करिष्यामीति यः कार्यमुपेक्षेत् स नराधमः
यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः। एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः
ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा। मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम्
बह्वीरपि मतीर्गत्वा मन्त्रिणामर्थनिर्णयः। पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः
अन्योन्यमतिमास्थाय यत्र सम्प्रतिभाष्यते। न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते
तस्मात् सुमन्त्रितं साधु भवन्तो मतिसत्तमाः। कार्यं सम्प्रतिपद्यन्तमेतत् कृत्यं मतं मम
वानराणां हि धीराणां सहस्रैः परिवारितः। रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः
तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्। तरसा युक्तरूपेण सानुजः सबलानुगः
समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा। तस्मिन्नेवंविधे कार्ये विरुद्धे वानरैः सह। हितं पुरे च सैन्ये च सर्वं सम्मन्त्र्यतां मम
thumb|सप्तमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तमः सर्गः ॥६-
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः। ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम्
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः। राजन् परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम्
सुमहन्नो बलं कस्माद् विषादं भजते भवान्। त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि
कैलासशिखरावासी यक्षैर्बहुभिरावृतः। सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः
स महेश्वरसख्येन श्लाघमानस्त्वया विभो। निर्जितः समरे रोषाल्लोकपालो महाबलः
विनिपात्य च यक्षौघान् विक्षोभ्य विनिगृह्य च। त्वया कैलासशिखराद् विमानमिदमाहृतम्
दानवेन्द्रो महाबाहो वीर्योत्सिक्तो दुरासदः। विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः
निर्जितास्ते महाबाहो नागा गत्वा रसातलम्। वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः। त्वया संवत्सरं युद्ध्वा समरे दानवा विभो
स्वबलं समुपाश्रित्य नीता वशमरिंदम। मायाश्चाधिगतास्तत्र बह्व्यो वै राक्षसाधिप
शूराश्च बलवन्तश्च वरुणस्य सुता रणे। निर्जितास्ते महाभाग चतुर्विधबलानुगाः
मृत्युदण्डमहाग्राहं शाल्मलीद्रुममण्डितम्। कालपाशमहावीचिं यमकिंकरपन्नगम्
महाज्वरेण दुर्धर्षं यमलोकमहार्णवम्। अवगाह्य त्वया राजन् यमस्य बलसागरम्
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः। सुयुद्धेन च ते सर्वे लोकस्तत्र सुतोषिताः
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः। आसीद् वसुमती पूर्णा महद्भिरिव पादपैः
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे। प्रसह्य ते त्वया राजन् हताः समरदुर्जयाः