ददृशुस्ते महात्मानो वाताहतजलाशयम्। अनिलोद्धूतमाकाशे प्रवलान्तमिवोर्मिभिः
ततो विस्मयमापन्ना हरयो ददृशुः स्थिताः। भ्रान्तोर्मिजालसंनादं प्रलोलमिव सागरम्
thumb|पञ्चमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चमः सर्गः ॥६-
सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता। सागरस्योत्तरे तीरे साधु सा विनिवेशिता
मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ। विचेरतुश्च तां सेनां रक्षार्थं सर्वतोदिशम्
निविष्टायां तु सेनायां तीरे नदनदीपतेः। पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत्
शोकश्च किल कालेन गच्छता ह्यपगच्छति। मम चापश्यतः कान्तामहन्यहनि वर्धते
वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश। त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः
तन्मे दहति गात्राणि विषं पीतमिवाशये। हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत्
तद्वियोगेन्धनवता तच्चिन्ताविमलार्चिषा। रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना
अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना। एवं च प्रज्वलन् कामो न मा सुप्तं जले दहेत्
बह्वेतत् कामयानस्य शक्यमेतेन जीवितुम्। यदहं सा च वामोरुरेकां धरणिमाश्रितौ
केदारस्येवाकेदारः सोदकस्य निरूदकः। उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम्
कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम्। विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम्
कदा सुचारुदन्तोष्ठं तस्याः पद्ममिवाननम्। ईषदुन्नाम्य पास्यामि रसायनमिवातुरः
तौ तस्याः सहितौ पीनौ स्तनौ तालफलोपमौ। कदा न खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः
सा नूनमसितापाङ्गी रक्षोमध्यगता सती। मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति
कथं जनकराजस्य दुहिता मम च प्रिया। राक्षसीमध्यगा शेते स्नुषा दशरथस्य च
अविक्षोभ्याणि रक्षांसि सा विधूयोत्पतिष्यति। विधूय जलदान् नीलान् शशिलेखा शरत्स्विव
स्वभावतनुका नूनं शोकेनानशनेन च। भूयस्तनुतरा सीता देशकालविपर्ययात्
कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्। शोकं प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम्
कदा नु खलु मे साध्वी सीतामरसुतोपमा। सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम्
कदा शोकमिमं घोरं मैथिलीविप्रयोगजम्। सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा
एवं विलपतस्तस्य तत्र रामस्य धीमतः। दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत्
आश्वासितो लक्ष्मणेन रामः संध्यामुपासत। स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः
thumb|षष्ठः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षष्ठः सर्गः ॥६-
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम्। राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना। अब्रवीद् राक्षसान् सर्वान् ह्रिया किंचिदवाङ्मुखः
धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी। तेन वानरमात्रेण दृष्टा सीता च जानकी
प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः। आविला च पुरी लङ्का सर्वा हनुमता कृता
किं करिष्यामि भद्रं वः किं वो युक्तमनन्तरम्। उच्यतां नः समर्थं यत् कृतं च सुकृतं भवेत्