इतीव स महाबाहुः सीताहरणकर्शितः। रामः सागरमासाद्य वासमाज्ञापयत् तदा
सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव। सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने
स्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत्। गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः। सेनां निवेशयत् तीरे सागरस्य द्रुमायुते
विरराज समीपस्थं सागरस्य च तद् बलम्। मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः। निविष्टाश्च परं पारं काङ्क्षमाणा महोदधेः
तेषां निविशमानानां सैन्यसंनाहनिःस्वनः। अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता। त्रिधा निविष्टा महती रामस्यार्थपराभवत्
सा महार्णवमासाद्य हृष्टा वानरवाहिनी। वायुवेगसमाधूतं पश्यमाना महार्णवम्
दूरपारमसम्बाधं रक्षोगणनिषेवितम्। पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः
चण्डनक्रग्राहघोरं क्षपादौ दिवसक्षये। हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः
चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम्। चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः
दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम्। अवगाढं महासत्त्वैर्नानाशैलसमाकुलम्
सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम्। मकरैर्नागभोगैश्च विगाढा वातलोलिताः। उत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः
अग्निचूर्णमिवाविद्धं भास्वराम्बुमहोरगम्। सुरारिनिलयं घोरं पातालविषयं सदा
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्। सागरं चाम्बरं चेति निर्विशेषमदृश्यत
सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा। तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले
समुत्पतितमेघस्य वीचिमालाकुलस्य च। विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च
अन्योन्यैरहताः सक्ताः सस्वनुर्भीमनिःस्वनाः। ऊर्मयः सिन्धुराजस्य महाभेर्य इवाम्बरे
रत्नौघजलसंनादं विषक्तमिव वायुना। उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम्
ददृशुस्ते महात्मानो वाताहतजलाशयम्। अनिलोद्धूतमाकाशे प्रवलान्तमिवोर्मिभिः
ततो विस्मयमापन्ना हरयो ददृशुः स्थिताः। भ्रान्तोर्मिजालसंनादं प्रलोलमिव सागरम्
thumb|पञ्चमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चमः सर्गः ॥६-
सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता। सागरस्योत्तरे तीरे साधु सा विनिवेशिता
मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ। विचेरतुश्च तां सेनां रक्षार्थं सर्वतोदिशम्
निविष्टायां तु सेनायां तीरे नदनदीपतेः। पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत्
शोकश्च किल कालेन गच्छता ह्यपगच्छति। मम चापश्यतः कान्तामहन्यहनि वर्धते
वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश। त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः
तन्मे दहति गात्राणि विषं पीतमिवाशये। हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत्
तद्वियोगेन्धनवता तच्चिन्ताविमलार्चिषा। रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना