ततः पादपसम्बाधं नानावनसमायुतम्। सह्यपर्वतमासाद्य वानरास्ते समारुहन्
काननानि विचित्राणि नदीप्रस्रवणानि च। पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च
चम्पकांस्तिलकांश्चूतानशोकान् सिन्दुवारकान्। तिनिशान् करवीरांश्च भञ्जन्ति स्म प्लवंगमाः
अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधपादपान्। जम्बूकामलकान् नीपान् भञ्जन्ति स्म प्लवंगमाः
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः। वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान्
मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः। षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु
अधिकं शैलराजस्तु धातुभिस्तु विभूषितः। धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घट्टितः
सुमहद्वानरानीकं छादयामास सर्वतः। गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः। माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः
चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा। रञ्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः
चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः। मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा
हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा। नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा
प्रीयमाणैः प्लवंगैस्तु सर्वे पर्याकुलीकृताः। वाप्यस्तस्मिन् गिरौ रम्याः पल्वलानि तथैव च
चक्रवाकानुचरिताः कारण्डवनिषेविताः। प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः
ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः। व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः
पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा। वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा। स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः
अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः। फलान्यमृतगन्धीनि मूलानि कुसुमानि च
बभञ्जुर्वानरास्तत्र पादपानां मदोत्कटाः। द्रोणमात्रप्रमाणानि लम्बमानानि वानराः
ययुः पिबन्तः स्वस्थास्ते मधूनि मधुपिङ्गलाः। पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः
विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः। वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधु दर्पिताः
अन्ये वृक्षान् प्रपद्यन्ते प्रपिबन्त्यपि चापरे। बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः। यथा कमलकेदारैः पक्वैरिव वसुंधरा
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः। आरुरोह महाबाहुः शिखरं द्रुमभूषितम्
ततः शिखरमारुह्य रामो दशरथात्मजः। कूर्ममीनसमाकीर्णमपश्यत् सलिलाशयम्
ते सह्यं समतिक्रम्य मलयं च महागिरिम्। आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम्
अवरुह्य जगामाशु वेलावनमनुत्तमम्। रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः। वेलामासाद्य विपुलां रामो वचनमब्रवीत्
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्। इहेदानीं विचिन्ता सा या नः पूर्वमुपस्थिता
अतः परमतीरोऽयं सागरः सरितां पतिः। न चायमनुपायेन शक्यस्तरितुमर्णवः
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह। यथेदं वानरबलं परं पारमवाप्नुयात्