निःससर्प महाघोरं भीमघोषमिवार्णवम्। तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः। कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ
महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ। ततो वानरराजेन लक्ष्मणेन सुपूजितः
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्। तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा
उवाच परिपूर्णार्थं पूर्णार्थप्रतिभानवान्। हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्
समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि। महान्ति च निमित्तानि दिवि भूमौ च राघव
शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये। अनुवाति शिवो वायुः सेनां मृदुहितः सुखः
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः। प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः। ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः। अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः। पितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम्
विमले च प्रकाशेते विशाखे निरुपद्रवे। नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम्
नैर्ऋतं नैर्ऋतानां च नक्षत्रमतिपीड्यते। मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना
सर्वं चैतद् विनाशाय राक्षसानामुपस्थितम्। काले कालगृहीतानां नक्षत्रं ग्रहपीडितम्
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च। प्रवान्ति नाधिका गन्धा यथर्तुकुसुमा द्रुमाः
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो। देवानामिव सैन्यानि संग्रामे तारकामये। एवमार्य समीक्ष्यैतत् प्रीतो भवितुमर्हसि
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत्। अथावृत्य महीं कृत्स्नां जगाम हरिवाहिनी
ऋक्षवानरशार्दूलैर्नखद्रंष्ट्रायुधैरपि। कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः
भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्। सपर्वतवनाकाशं दक्षिणां हरिवाहिनी
छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः। उत्तरन्त्याश्च सेनायाः सततं बहुयोजनम्
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत्। सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान्
समान् भूमिप्रदेशांश्च वनानि फलवन्ति च। मध्येन च समन्ताच्च तिर्यक् चाधश्च साविशत्
समावृत्य महीं कृत्स्नां जगाम महती चमूः। ते हृष्टवदनाः सर्वे जग्मुर्मारुतरंहसः
हरयो राघवस्यार्थे समारोपितविक्रमाः। हर्षं वीर्यं बलोद्रेकान् दर्शयन्तः परस्परम्
यौवनोत्सेकजाद् दर्पाद् विविधांश्चक्रुरध्वनि। तत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथापरे
केचित् किलकिलां चक्रुर्वानरा वनगोचराः। प्रास्फोटयंश्च पुच्छानि संनिजघ्नुः पदान्यपि
भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे। आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः
महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिरे। ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः। ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः
वानराणां सुघोराणां श्रीमत्परिवृता मही। सा स्म याति दिवारात्रं महती हरिवाहिनी
प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः। वानरास्त्वरिता यान्ति सर्वे युद्धाभिनन्दिनः। प्रमोक्षयिषवः सीतां मुहूर्तं क्वापि नावसन्