गजश्च गिरिसंकाशो गवयश्च महाबलः। गवाक्षश्चाग्रतो यातु गवां दृप्त इवर्षभः
यातु वानरवाहिन्या वानरः प्लवतां पतिः। पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः। यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्। अधिरुह्य हनूमन्तमैरावतमिवेश्वरः
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः। सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः। ऋक्षराजो महाबाहुः कुक्षिं रक्षन्तु ते त्रयः
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः। व्यादिदेश महावीर्यो वानरान् वानरर्षभः
ते वानरगणाः सर्वे समुत्पत्य महौजसः। गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा
ततो वानरराजेन लक्ष्मणेन च पूजितः। जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्
शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि। वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा
तं यान्तमनुयान्ती सा महती हरिवाहिनी। हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणापि पालिताः
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम्
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च। उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः
अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च। पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्
रावणो नो निहन्तव्यः सर्वे च रजनीचराः। इति गर्जन्ति हरयो राघवस्य समीपतः
पुरस्तादृषभो नीलो वीरः कुमुद एव च। पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च। बलिभिर्बहुभिर्भीमैर्वृतः शत्रुनिबर्हणः
हरिः शतबलिर्वीरः कोटिभिर्दशभिर्वृतः। सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्
कोटीशतपरीवारः केसरी पनसो गजः। अर्कश्च बहुभिः पार्श्वमेकं तस्याभिरक्षति
सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ। सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः
तेषां सेनापतिर्वीरो नीलो वानरपुंगवः। सम्पतन् प्लवतां श्रेष्ठस्तद् बलं पर्यवारयत्
दरीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः। सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान्
एवं ते हरिशार्दूला गच्छन्ति बलदर्पिताः। अपश्यन्त गिरिश्रेष्ठं सह्यं गिरिशतायुतम्
सरांसि च सुफुल्लानि तटाकानि वराणि च। रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत्
वर्जयन् नागराभ्याशांस्तथा जनपदानपि। सागरौघनिभं भीमं तद् वानरबलं महत्
निःससर्प महाघोरं भीमघोषमिवार्णवम्। तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः। कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ
महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ। ततो वानरराजेन लक्ष्मणेन सुपूजितः
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्। तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा
उवाच परिपूर्णार्थं पूर्णार्थप्रतिभानवान्। हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्