परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च। शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः
अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्। शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्। चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः
प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्। चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः
न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्। रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः
शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः। यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्
ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः। दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः। बलैकदेशः क्षपितो राक्षसानां महात्मनाम्
येन केन तु मार्गेण तराम वरुणालयम्। हतेति नगरी लङ्का वानरैरुपधार्यताम्
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः। नीलः सेनापतिश्चैव बलशेषेण किं तव
प्लवमाना हि गत्वा त्वां रावणस्य महापुरीम्। सपर्वतवनां भित्त्वा सखातां च सतोरणाम्। सप्राकारां सभवनामानयिष्यन्ति राघव
एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्। मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्थः सर्गः ॥६-
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः। ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः
यन्निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः। क्षिप्रमेनां वधिष्यामि सत्यमेतद् ब्रवीमि ते
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय। युक्तो मुहूर्ते विजये प्राप्तो मध्यं दिवाकरः
उत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते। अभिप्रयाम सुग्रीव सर्वानीकसमावृताः
निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै। निहत्य रावणं सीतामानयिष्यामि जानकीम्
उपरिष्टाद्धि नयनं स्फुरमाणमिमं मम। विजयं समनुप्राप्तं शंसतीव मनोरथम्
ततो वानरराजेन लक्ष्मणेन सुपूजितः। उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्। वृतः शतसहस्रेण वानराणां तरस्विनाम्
फलमूलवता नील शीतकाननवारिणा। पथा मधुमता चाशु सेनां सेनापते नय
दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्। राक्षसाः पथि रक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः। अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम्
यत्तु फल्गु बलं किंचित् तदत्रैवोपपद्यताम्। एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम्
सागरौघनिभं भीममग्रानीकं महाबलाः। कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः
गजश्च गिरिसंकाशो गवयश्च महाबलः। गवाक्षश्चाग्रतो यातु गवां दृप्त इवर्षभः
यातु वानरवाहिन्या वानरः प्लवतां पतिः। पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः। यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्। अधिरुह्य हनूमन्तमैरावतमिवेश्वरः
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः। सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा