द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः। शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः
सौवर्णस्तु महांस्तस्याः प्राकारो दुष्प्रधर्षणः। मणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः
सर्वतश्च महाभीमाः शीततोया महाशुभाः। अगाधा ग्राहवत्यश्च परिखा मीनसेविताः
द्वारेषु तासां चत्वारः संक्रमाः परमायताः। यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः
त्रायन्ते संक्रमास्तत्र परसैन्यागते सति। यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः
एकस्त्वकम्प्यो बलवान् संक्रमः सुमहादृढः। काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः
स्वयं प्रकृतिमापन्नो युयुत्सू राम रावणः। उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने
लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा। नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम्
स्थिता पारे समुद्रस्य दूरपारस्य राघव। नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा। वाजिवारणसम्पूर्णा लङ्का परमदुर्जया
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च। शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः
अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्। शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः
नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्। चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः
प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्। चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः
न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्। रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः
शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः। यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्
ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः। दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः। बलैकदेशः क्षपितो राक्षसानां महात्मनाम्
येन केन तु मार्गेण तराम वरुणालयम्। हतेति नगरी लङ्का वानरैरुपधार्यताम्
अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः। नीलः सेनापतिश्चैव बलशेषेण किं तव
प्लवमाना हि गत्वा त्वां रावणस्य महापुरीम्। सपर्वतवनां भित्त्वा सखातां च सतोरणाम्। सप्राकारां सभवनामानयिष्यन्ति राघव
एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्। मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्थः सर्गः ॥६-
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः। ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः
यन्निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः। क्षिप्रमेनां वधिष्यामि सत्यमेतद् ब्रवीमि ते
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय। युक्तो मुहूर्ते विजये प्राप्तो मध्यं दिवाकरः
उत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते। अभिप्रयाम सुग्रीव सर्वानीकसमावृताः
निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै। निहत्य रावणं सीतामानयिष्यामि जानकीम्
उपरिष्टाद्धि नयनं स्फुरमाणमिमं मम। विजयं समनुप्राप्तं शंसतीव मनोरथम्
ततो वानरराजेन लक्ष्मणेन सुपूजितः। उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्। वृतः शतसहस्रेण वानराणां तरस्विनाम्