सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्। कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्। सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्। आवसत् परमप्रख्यः सुमतिर्नाम दुर्जयः
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः। दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः
इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम्। श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि
सुमतिस्तु महातेजा विश्वामित्रमुपागतम्। श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन्महायशाः
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः। प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने। सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम
thumb|अष्टचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टचत्वारिंशः सर्गः ॥१-
पृष्ट्वा तु कुशलं तत्र परस्परसमागमे। कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ। गजसिंहगती वीरौ शार्दूलवृषभोपमौ
पद्मपत्रविशालाक्षौ खड्गतूणिधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्। परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः
किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि। वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः
तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत्। सिद्धाश्रमनिवासं च राक्षसानां वधं यथा। विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः
अतिथी परमं प्राप्तौ पुत्रौ दशरथस्य तौ। पूजयामास विधिवत् सत्कारार्हौ महाबलौ
ततः परमसत्कारं सुमतेः प्राप्य राघवौ। उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः
तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्। साधु साध्विति शंसन्तो मिथिलां समपूजयन्
मिथिलोपवने तत्र आश्रमं दृश्य राघवः। पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम्
इदमाश्रमसंकाशं किं न्विदं मुनिवर्जितम्। श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः। प्रत्युवाच महातेजा विश्वामित्रो महामुनिः
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव। यस्यैतदाश्रमपदं शप्तं कोपान्महात्मनः
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः। आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः
स चात्र तप आतिष्ठदहल्यासहितः पुरा। वर्षपूगान्यनेकानि राजपुत्र महायशः
तस्यान्तरं विदित्वा च सहस्राक्षः शचीपतिः। मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत्
ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते। संगमं त्वहमिच्छामि त्वया सह सुमध्यमे
मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन। मतिं चकार दुर्मेधा देवराजकुतूहलात्
अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना। कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो
आत्मानं मां च देवेश सर्वथा रक्ष गौतमात्। इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्