इमे शूराः समर्थाश्च सर्वतो हरियूथपाः। त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम्। एषां हर्षेण जानामि तर्कश्चापि दृढो मम
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्। रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि
सेतुरत्र यथा बद्ध्येद् यथा पश्येम तां पुरीम्। तस्य राक्षसराजस्य तथा त्वं कुरु राघव
दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्। हतं च रावणं युद्धे दर्शनादवधारय
अबद्ध्वा सागरे सेतुं घोरे च वरुणालये। लङ्कां न मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः
सेतुबन्धः समुद्रे च यावल्लङ्कासमीपतः। सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय। इमे हि समरे वीरा हरयः कामरूपिणः
तदलं विक्लवां बुद्धिं राजन् सर्वार्थनाशिनीम्। पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः
यत् तु कार्यं मनुष्येण शौटीर्यमवलम्ब्यताम्। तदलंकरणायैव कर्तुर्भवति सत्वरम्
अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा। शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम्। विनष्टे वा प्रणष्टे वा शोकः सर्वार्थनाशनः
तत्त्वं बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः। मद्विधैः सचिवैः सार्धमरिं जेतुं समर्हसि
नहि पश्याम्यहं कंचित् त्रिषु लोकेषु राघव। गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे
वानरेषु समासक्तं न ते कार्यं विपत्स्यते। अचिराद् द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम्
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते। निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति
लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः। सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु। सर्वं तीर्णं च मे सैन्यं जितमित्यवधार्यताम्
इमे हि हरयः शूराः समरे कामरूपिणः। तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः
कथंचित् परिपश्यामि लङ्घितं वरुणालयम्। हतमित्येव तं मन्ये युद्धे शत्रुनिबर्हण
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्। निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति
thumb|तृतीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे तृतीयः सर्गः ॥६-
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवत्। प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत्
तपसा सेतुबन्धेन सागरोच्छोषणेन च। सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने
बलस्य परिमाणं च द्वारदुर्गक्रियामपि। गुप्तिकर्म च लङ्काया रक्षसां सदनानि च
यथासुखं यथावच्च लङ्कायामसि दृष्टवान्। सर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि
श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः। वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत्
श्रूयतां सर्वमाख्यास्ये दुर्गकर्म विधानतः। गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा। परां समृद्धिं लङ्कायाः सागरस्य च भीमताम्
विभागं च बलौघस्य निर्देशं वाहनस्य च। एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः
हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला। महती रथसम्पूर्णा रक्षोगणनिषेविता
दृढबद्धकपाटानि महापरिघवन्ति च। चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति च
तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च। आगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते