तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशूरस्य तथा त्वमुपपादय
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्याहं ततः शेषं वाक्यमुत्तरमब्रवम्
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्त्वदर्थे कृतनिश्चयः
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः। मनःसंकल्पसदृशा निदेशे हरयः स्थिताः
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः
असकृत् तैर्महाभागैर्वानरैर्बलसंयुतैः। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः
तदलं परितापेन देवि मन्युरपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः
अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्मन्तं लङ्काद्वारमुपागतम्
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानां नचिराच्छ्रोष्यसे स्वनम्
निवृत्तवनवासं च त्वया सार्धमरिंदमम्। अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्
ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता। उवाह शान्तिं मम मैथिलात्मजा तवातिशोकेन तथातिपीडिता
thumb|ध्यानश्लोकाः श्रूयन्ताम्|center thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे प्रथमः सर्गः ॥६-
कृतं हनूमता कार्यं सुमहद् भुवि दुर्लभम्। मनसापि यदन्येन न शक्यं धरणीतले
नहि तं परिपश्यामि यस्तरेत महोदधिम्। अन्यत्र गरुडाद् वायोरन्यत्र च हनूमतः
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्। अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम्
प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत्। को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम्
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः। भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत्। एवं विधाय स्वबलं सदृशं विक्रमस्य च
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे। कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम्
यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम्। भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम्
नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः। भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम्
तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता। न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः
अहं च रघुवंशश्च लक्ष्मणश्च महाबलः। वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः
इदं तु मम दीनस्य मनो भूयः प्रकर्षति। यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम्
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः। मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे। हनूमन्तं कृतात्मानं कृतकार्यमुपागतम्
ध्यात्वा पुनरुवाचेदं वचनं रघुसत्तमः। हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः