गते हि त्वयि विक्रान्ते पुनरागमनाय वै। प्राणानामपि संदेहो मम स्यान्नात्र संशयः
तवादर्शनजः शोको भूयो मां परितापयेत्। दुखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम्
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने। शक्तिः स्याद् वैनतेयस्य वायोर्वा तव चानघ
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं ब्रूहि कार्यविदां वर
काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे। विजयी स्वपुरीं रामो नयेत् तत् स्याद् यशस्करम्
यथाहं तस्य वीरस्य वनादुपधिना हृता। रक्षसा तद्भयादेव तथा नार्हति राघवः
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्
तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशूरस्य तथा त्वमुपपादय
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्याहं ततः शेषं वाक्यमुत्तरमब्रवम्
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्त्वदर्थे कृतनिश्चयः
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः। मनःसंकल्पसदृशा निदेशे हरयः स्थिताः
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः
असकृत् तैर्महाभागैर्वानरैर्बलसंयुतैः। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः
तदलं परितापेन देवि मन्युरपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः
अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्मन्तं लङ्काद्वारमुपागतम्
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानां नचिराच्छ्रोष्यसे स्वनम्
निवृत्तवनवासं च त्वया सार्धमरिंदमम्। अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्
ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता। उवाह शान्तिं मम मैथिलात्मजा तवातिशोकेन तथातिपीडिता
thumb|ध्यानश्लोकाः श्रूयन्ताम्|center thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे प्रथमः सर्गः ॥६-
कृतं हनूमता कार्यं सुमहद् भुवि दुर्लभम्। मनसापि यदन्येन न शक्यं धरणीतले
नहि तं परिपश्यामि यस्तरेत महोदधिम्। अन्यत्र गरुडाद् वायोरन्यत्र च हनूमतः
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्। अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम्
प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत्। को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम्