प्रीतिसंजननं तस्य प्रदातुं तत् त्वमर्हसि। साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम्
मुक्त्वा वस्त्राद् ददौ मह्यं मणिमेतं महाबल। प्रतिगृह्य मणिं दोर्भ्यां तव हेतो रघुप्रिय
शिरसा सम्प्रणम्यैनामहमागमने त्वरे। गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी
विवर्धमानं च हि मामुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पगद्गदभाषिणी
ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता। मामुवाच ततः सीता सभाग्योऽसि महाकपे
यद् द्रक्ष्यसि महाबाहुं रामं कमललोचनम्। लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम्
सीतयाप्येवमुक्तोऽहमब्रुवं मैथिलीं तथा। पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दनि
यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम्। राघवं च महाभागे भर्तारमसितेक्षणे
साब्रवीन्मां ततो देवी नैष धर्मो महाकपे। यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव
पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा। तत्राहं किं करिष्यामि कालेनोपनिपीडिता
गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ। इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता
हनूमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्
यथा च स महाबाहुर्मां तारयति राघवः। अस्माद्दुःखाम्बुसंरोधात् तत् त्वमाख्यातुमर्हसि
इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर
एतत् तवार्या नृप संयता सा सीता वचः प्राह विषादपूर्वम्। एतच्च बुद्ध्वा गदितं यथा त्वं श्रद्धत्स्व सीतां कुशलां समग्राम्
thumb|अष्टषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टषष्ठितमः सर्गः ॥५-
अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमम्। तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य च
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया। यथा मां प्राप्नुयाच्छीघ्रं हत्वा रावणमाहवे
यदि वा मन्यसे वीर वसैकाहमरिंदम। कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चाप्यल्पभाग्यायाः सांनिध्यात् तव वानर। अस्य शोकविपाकस्य मुहूर्तं स्याद् विमोक्षणम्
गते हि त्वयि विक्रान्ते पुनरागमनाय वै। प्राणानामपि संदेहो मम स्यान्नात्र संशयः
तवादर्शनजः शोको भूयो मां परितापयेत्। दुखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम्
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने। शक्तिः स्याद् वैनतेयस्य वायोर्वा तव चानघ
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं ब्रूहि कार्यविदां वर
काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे। विजयी स्वपुरीं रामो नयेत् तत् स्याद् यशस्करम्
यथाहं तस्य वीरस्य वनादुपधिना हृता। रक्षसा तद्भयादेव तथा नार्हति राघवः
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्