thumb|सप्तषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तषष्ठितमः सर्गः ॥५-
एवमुक्तस्तु हनुमान् राघवेण महात्मना। सीताया भाषितं सर्वं न्यवेदयत राघवे
इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम्
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता। वायसः सहसोत्पत्य विददार स्तनान्तरम्
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जनयति व्यथा
ततः पुनरुपागम्य विददार भृशं किल। ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः
वायसेन च तेनैवं सततं बाध्यमानया। बोधितः किल देव्या त्वं सुखसुप्तः परंतप
तां च दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धस्ततो वाक्यं त्वमूचिवान्
नखाग्रैः केन ते भीरु दारितं वै स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
निरीक्षमाणः सहसा वायसं समुदैक्षथाः। नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम्
सुतः किल स शक्रस्य वायसः पततां वरः। धरान्तरगतः शीघ्रं पवनस्य गतौ समः
ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः। वायसे त्वं व्यधाः क्रूरां मतिं मतिमतां वर
स दर्भसंस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः। स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम्
स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति। ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह
भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्च वायसः। त्रीँल्लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति
पुनरप्यागतस्तत्र त्वत्सकाशमरिंदम। त्वं तं निपतितं भूमौ शरण्यः शरणागतम्
वधार्हमपि काकुत्स्थ कृपया परिपालयः। मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। राम त्वां स नमस्कृत्य राज्ञो दशरथस्य च
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्। एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि
किमर्थमस्त्रं रक्षःसु न योजयसि राघव। न दानवा न गन्धर्वा नासुरा न मरुद्गणाः
तव राम रणे शक्तास्तथा प्रतिसमासितुम्। तव वीर्यवतः कश्चिन्मयि यद्यस्ति सम्भ्रमः
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः। भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परंतपः
स किमर्थं नरवरो न मां रक्षति राघवः। शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः। ममैव दुष्कृतं किंचिन्महदस्ति न संशयः
समर्थौ सहितौ यन्मां न रक्षेते परंतपौ। वैदेह्या वचनं श्रुत्वा करुणं साधुभाषितम्
पुनरप्यहमार्यां तामिदं वचनमब्रुवम्। त्वच्छोकविमुखो रामो देवि सत्येन ते शपे
रामे दुःखाभिभूते च लक्ष्मणः परितप्यते। कथंचिद् भवती दृष्टा न कालः परिशोचितुम्
अस्मिन् मुहूर्ते दुःखानामन्तं द्रक्ष्यसि भामिनि। तावुभौ नरशार्दूलौ राजपुत्रौ परंतपौ
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः। हत्वा च समरे रौद्रं रावणं सहबान्धवम्
राघवस्त्वां वरारोहे स्वपुरीं नयिता ध्रुवम्। यत् तु रामो विजानीयादभिज्ञानमनिन्दिते