इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्। अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम्। मणिं पश्यामि सौमित्रे वैदेहीमागतां विना
चिरं जीवति वैदेही यदि मासं धरिष्यति। क्षणं वीर न जीवेयं विना तामसितेक्षणाम्
नय मामपि तं देशं यत्र दृष्टा मम प्रिया। न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च
कथं सा मम सुश्रोणी भीरुभीरुः सती तदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्
शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः। आवृतो वदनं तस्या न विराजति साम्प्रतम्
किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे। एतेन खलु जीविष्ये भेषजेनातुरो यथा
मधुरा मधुरालापा किमाह मम भामिनी। मद्विहीना वरारोहा हनुमन् कथयस्व मे। दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी
thumb|सप्तषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तषष्ठितमः सर्गः ॥५-
एवमुक्तस्तु हनुमान् राघवेण महात्मना। सीताया भाषितं सर्वं न्यवेदयत राघवे
इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम्
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता। वायसः सहसोत्पत्य विददार स्तनान्तरम्
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जनयति व्यथा
ततः पुनरुपागम्य विददार भृशं किल। ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः
वायसेन च तेनैवं सततं बाध्यमानया। बोधितः किल देव्या त्वं सुखसुप्तः परंतप
तां च दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धस्ततो वाक्यं त्वमूचिवान्
नखाग्रैः केन ते भीरु दारितं वै स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
निरीक्षमाणः सहसा वायसं समुदैक्षथाः। नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम्
सुतः किल स शक्रस्य वायसः पततां वरः। धरान्तरगतः शीघ्रं पवनस्य गतौ समः
ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः। वायसे त्वं व्यधाः क्रूरां मतिं मतिमतां वर
स दर्भसंस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः। स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम्
स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति। ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह
भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्च वायसः। त्रीँल्लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति
पुनरप्यागतस्तत्र त्वत्सकाशमरिंदम। त्वं तं निपतितं भूमौ शरण्यः शरणागतम्
वधार्हमपि काकुत्स्थ कृपया परिपालयः। मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। राम त्वां स नमस्कृत्य राज्ञो दशरथस्य च
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्। एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि
किमर्थमस्त्रं रक्षःसु न योजयसि राघव। न दानवा न गन्धर्वा नासुरा न मरुद्गणाः