अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके। चित्रकूटे महाप्राज्ञ वायसं प्रति राघव
विज्ञाप्यः पुनरप्येष रामो वायुसुत त्वया। अखिलेन यथा दृष्टमिति मामाह जानकी
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः। ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः
एष चूडामणिः श्रीमान् मया ते यत्नरक्षितः। मनःशिलायास्तिलकं तत् स्मरस्वेति चाब्रवीत्
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः। एनं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ
जीवितं धारयिष्यामि मासं दशरथात्मज। ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता
इति मामब्रवीत् सीता कृशाङ्गी धर्मचारिणी। रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना
एतदेव मयाऽऽख्यातं सर्वं राघव यद् यथा। सर्वथा सागरजले संतारः प्रविधीयताम्
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय। देव्या चाख्यातं सर्वमेवानुपूर्व्याद् वाचा सम्पूर्णं वायुपुत्रः शशंस
thumb|षट्षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षट्षष्ठितमः सर्गः ॥५-
एवमुक्तो हनुमता रामो दशरथात्मजः। तं मणिं हृदये कृत्वा रुरोद सहलक्ष्मणः
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः। नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्
यथैव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला। तथा ममापि हृदयं मणिश्रेष्ठस्य दर्शनात्
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे। वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते
अयं हि जलसम्भूतो मणिः प्रवरपूजितः। यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता
इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्। अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम्। मणिं पश्यामि सौमित्रे वैदेहीमागतां विना
चिरं जीवति वैदेही यदि मासं धरिष्यति। क्षणं वीर न जीवेयं विना तामसितेक्षणाम्
नय मामपि तं देशं यत्र दृष्टा मम प्रिया। न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च
कथं सा मम सुश्रोणी भीरुभीरुः सती तदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्
शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः। आवृतो वदनं तस्या न विराजति साम्प्रतम्
किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे। एतेन खलु जीविष्ये भेषजेनातुरो यथा
मधुरा मधुरालापा किमाह मम भामिनी। मद्विहीना वरारोहा हनुमन् कथयस्व मे। दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी
thumb|सप्तषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तषष्ठितमः सर्गः ॥५-
एवमुक्तस्तु हनुमान् राघवेण महात्मना। सीताया भाषितं सर्वं न्यवेदयत राघवे
इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम्
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता। वायसः सहसोत्पत्य विददार स्तनान्तरम्
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जनयति व्यथा