तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः। निपेतुर्हरिराजस्य समीपे राघवस्य च
हनूमांश्च महाबाहुः प्रणम्य शिरसा ततः। नियतामक्षतां देवीं राघवाय न्यवेदयत्
दृष्टा देवीति हनुमद्वदनादमृतोपमम्। आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः
निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे। लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत
प्रीत्या च परयोपेतो राघवः परवीरहा। बहुमानेन महता हनूमन्तमवैक्षत
thumb|पञ्चषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चषष्ठितमः सर्गः ॥५-
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्। प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च। प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम्। रामे समनुरागं च यथा च नियमः कृतः
एतदाख्याय ते सर्वं हरयो रामसंनिधौ। वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्
क्व सीता वर्तते देवी कथं च मयि वर्तते। एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः
रामस्य गदितं श्रुत्वा हरयो रामसंनिधौ। चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्
श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः। प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा। तं मणिं काञ्चनं दिव्यं दीप्यमानं स्वतेजसा
दत्त्वा रामाय हनुमांस्ततः प्राञ्जलिरब्रवीत्। समुद्रं लङ्घयित्वाहं शतयोजनमायतम्
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया। तत्र लङ्केति नगरी रावणस्य दुरात्मनः
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे। तत्र सीता मया दृष्टा रावणान्तःपुरे सती
त्वयि संन्यस्य जीवन्ती रामा राम मनोरथम्। दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने। दुःखमापद्यते देवी त्वया वीर सुखोचिता
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। एकवेणीधरा दीना त्वयि चिन्तापरायणा
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया
देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया। इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ
सा मया नरशार्दूल शनैर्विश्वासिता तदा। ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता
रामसुग्रीवसख्यं च श्रुत्वा हर्षमुपागता। नियतः समुदाचारो भक्तिश्चास्याः सदा त्वयि
एवं मया महाभाग दृष्टा जनकनन्दिनी। उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ
अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके। चित्रकूटे महाप्राज्ञ वायसं प्रति राघव
विज्ञाप्यः पुनरप्येष रामो वायुसुत त्वया। अखिलेन यथा दृष्टमिति मामाह जानकी
अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः। ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः
एष चूडामणिः श्रीमान् मया ते यत्नरक्षितः। मनःशिलायास्तिलकं तत् स्मरस्वेति चाब्रवीत्
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः। एनं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ