सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात् पदम्। क्वचिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत। साधु गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः। कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवोपलाः
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्। तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः
विनदन्तो महानादं घना वातेरिता यथा। अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः
उवाच शोकसंतप्तं रामं कमललोचनम्। समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः
नागन्तुमिह शक्यं तैरतीतसमयैरिह। अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवतामङ्गदो वरः
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः। भवेत् तु दीनवदनो भ्रान्तविप्लुतमानसः
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्। न मे मधुवनं हन्याददृष्ट्वा जनकात्मजाम्
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत। दृष्टा देवी न संदेहो न चान्येन हनूमता
नह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः। हनूमतीह सिद्धिश्च मतिश्च मतिसत्तम
व्यवसायश्च शौर्यं च श्रुतं चापि प्रतिष्ठितम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च हरीश्वरः
हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा। मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम
यदा हि दर्पितोदग्राः संगताः काननौकसः। नैषामकृतकार्याणामीदृशः स्यादुपक्रमः
वनभङ्गेन जानामि मधूनां भक्षणेन च। ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे
हनूमत्कर्मदृप्तानां नदतां काननौकसाम्। किष्किन्धामुपयातानां सिद्धिं कथयतामिव
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः। आयताञ्चितलाङ्गूलः सोऽभवद्हृष्टमानसः
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्
तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः। निपेतुर्हरिराजस्य समीपे राघवस्य च
हनूमांश्च महाबाहुः प्रणम्य शिरसा ततः। नियतामक्षतां देवीं राघवाय न्यवेदयत्
दृष्टा देवीति हनुमद्वदनादमृतोपमम्। आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः
निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे। लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत
प्रीत्या च परयोपेतो राघवः परवीरहा। बहुमानेन महता हनूमन्तमवैक्षत
thumb|पञ्चषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चषष्ठितमः सर्गः ॥५-
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्। प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च। प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम्। रामे समनुरागं च यथा च नियमः कृतः
एतदाख्याय ते सर्वं हरयो रामसंनिधौ। वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्