प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्। प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः। श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णमङ्गदः
अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः। शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः
अयं च हर्षादाख्याति तेन जानामि हेतुना। तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः
पीत्वा मधु यथाकामं विक्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र वानरः
सर्वे यथा मां वक्ष्यन्ति समेत्य हरिपुङ्गवाः। तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि। अयुक्तं कृतकर्माणो यूयं धर्षयितुं बलात्
ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमुत्तमम्। प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ। ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्। सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात् पदम्। क्वचिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत। साधु गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः। कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवोपलाः
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्। तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः
विनदन्तो महानादं घना वातेरिता यथा। अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः
उवाच शोकसंतप्तं रामं कमललोचनम्। समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः
नागन्तुमिह शक्यं तैरतीतसमयैरिह। अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवतामङ्गदो वरः
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः। भवेत् तु दीनवदनो भ्रान्तविप्लुतमानसः
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्। न मे मधुवनं हन्याददृष्ट्वा जनकात्मजाम्
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत। दृष्टा देवी न संदेहो न चान्येन हनूमता
नह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः। हनूमतीह सिद्धिश्च मतिश्च मतिसत्तम
व्यवसायश्च शौर्यं च श्रुतं चापि प्रतिष्ठितम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च हरीश्वरः
हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा। मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम
यदा हि दर्पितोदग्राः संगताः काननौकसः। नैषामकृतकार्याणामीदृशः स्यादुपक्रमः
वनभङ्गेन जानामि मधूनां भक्षणेन च। ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे
हनूमत्कर्मदृप्तानां नदतां काननौकसाम्। किष्किन्धामुपयातानां सिद्धिं कथयतामिव
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः। आयताञ्चितलाङ्गूलः सोऽभवद्हृष्टमानसः
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्