एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह। नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः। अभिगम्य यथा सर्वे पिबन्ति मधु वानराः
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ। वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः। श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्
प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः। श्रुत्वा दधिमुखस्यैवं सुग्रीवस्तु प्रहृष्य च
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत। प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः
धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्। गच्छ शीघ्रं मधुवनं संरक्षस्व त्वमेव हि। शीघ्रं प्रेषय सर्वांस्तान् हनूमत्प्रमुखान् कपीन्
इच्छामि शीघ्रं हनुमत्प्रधानान्- शाखामृगांस्तान् मृगराजदर्पान्। प्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम्
प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा। अङ्गैः प्रहृष्टैः कार्यसिद्धिं विदित्वा बाह्वोरासन्नामतिमात्रं ननन्द
thumb|चतुःषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुःषष्ठितमः सर्गः ॥५-
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः। राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ। वानरैः सहितः शूरैर्दिवमेवोत्पपात ह
स यथैवागतः पूर्वं तथैव त्वरितं गतः। निपत्य गगनाद् भूमौ तद् वनं प्रविवेश ह
स प्रविष्टो मधुवनं ददर्श हरियूथपान्। विमदानुद्धतान् सर्वान् मेहमानान् मधूदकम्
स तानुपागमद् वीरो बद्ध्वा करपुटाञ्जलिम्। उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्
सौम्य रोषो न कर्तव्यो यदेभिः परिवारणम्। अज्ञानाद् रक्षिभिः क्रोधाद् भवन्तः प्रतिषेधिताः
श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु। युवराजस्त्वमीशश्च वनस्यास्य महाबल
मौर्ख्यात् पूर्वं कृतो रोषस्तद् भवान् क्षन्तुमर्हति। यथैव हि पिता तेऽभूत् पूर्वं हरिगणेश्वरः
तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम। आख्यातं हि मया गत्वा पितृव्यस्य तवानघ
इहोपयानं सर्वेषामेतेषां वनचारिणाम्। भवदागमनं श्रुत्वा सहैभिर्वनचारिभिः
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्। प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः। श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णमङ्गदः
अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः। शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः
अयं च हर्षादाख्याति तेन जानामि हेतुना। तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः
पीत्वा मधु यथाकामं विक्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र वानरः
सर्वे यथा मां वक्ष्यन्ति समेत्य हरिपुङ्गवाः। तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि। अयुक्तं कृतकर्माणो यूयं धर्षयितुं बलात्
ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमुत्तमम्। प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ। ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्। सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्