नैवर्क्षरजसा राजन् न त्वया न च वालिना। वनं निसृष्टपूर्वं ते नाशितं तत्तु वानरैः
न्यवारयमहं सर्वान् सहैभिर्वनचारिभिः। अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्ति च
एभिः प्रधर्षणायां च वारितं वनपालकैः। मामप्यचिन्तयन् देव भक्षयन्ति वनौकसः
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे। निवार्यमाणास्ते सर्वे भ्रुकुटिं दर्शयन्ति हि
इमे हि संरब्धतरास्तदा तैः सम्प्रधर्षिताः। निवार्यन्ते वनात् तस्मात् क्रुद्धैर्वानरपुङ्गवैः
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः। संरक्तनयनैः क्रोधाद्धरयः सम्प्रधर्षिताः
पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः। प्रकृष्टाश्च तदा कामं देवमार्गं च दर्शिताः
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि। कृत्स्नं मधुवनं चैव प्रकामं तैश्च भक्ष्यते
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्। अपृच्छत् तं महाप्राज्ञो लक्ष्मणः परवीरहा
किमयं वानरो राजन् वनपः प्रत्युपस्थितः। किं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः
आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः। अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः
नैषामकृतकार्याणामीदृशः स्याद् व्यतिक्रमः। वनं यदभिपन्नास्ते साधितं कर्म तद् ध्रुवम्
वारयन्तो भृशं प्राप्ताः पाला जानुभिराहताः। तथा न गणितश्चायं कपिर्दधिमुखो बली
पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम्। दृष्टा देवी न संदेहो न चान्येन हनूमता
न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः। कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गवे
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः
हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा। अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः। आगतैश्चाप्रधृष्यं तद्धतं मधुवनं हि तैः
धर्षितं च वनं कृत्स्नमुपयुक्तं तु वानरैः। पातिता वनपालास्ते तदा जानुभिराहताः
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह। नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः। अभिगम्य यथा सर्वे पिबन्ति मधु वानराः
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ। वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः। श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्
प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः। श्रुत्वा दधिमुखस्यैवं सुग्रीवस्तु प्रहृष्य च
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत। प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः
धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्। गच्छ शीघ्रं मधुवनं संरक्षस्व त्वमेव हि। शीघ्रं प्रेषय सर्वांस्तान् हनूमत्प्रमुखान् कपीन्
इच्छामि शीघ्रं हनुमत्प्रधानान्- शाखामृगांस्तान् मृगराजदर्पान्। प्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम्
प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा। अङ्गैः प्रहृष्टैः कार्यसिद्धिं विदित्वा बाह्वोरासन्नामतिमात्रं ननन्द
thumb|चतुःषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुःषष्ठितमः सर्गः ॥५-