हरयो मधुना मत्ताः केचित् सुप्ता महीतले। धृष्टाः केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत्
कृत्वा केचिद् वदन्त्यन्ये केचिद् बुध्यन्ति चेतरत्। येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः। जानुभिश्च प्रघृष्टाश्च देवमार्गं च दर्शिताः
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः। हनूमता दत्तवरैर्हतं मधुवनं बलात्। वयं च जानुभिर्घृष्टा देवमार्गं च दर्शिताः
तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्
एतागच्छत गच्छामो वानरानतिदर्पितान्। बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम्
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहिता ययुः
मध्ये चैषां दधिमुखः सुप्रगृह्य महातरुम्। समभ्यधावन् वेगेन सर्वे ते च प्लवंगमाः
ते शिलाः पादपांश्चैव पाषाणानपि वानराः। गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः
बलान्निवारयन्तश्च आसेदुर्हरयो हरीन्। संदष्टौष्ठपुटाः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः। अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा
सवृक्षं तं महाबाहुमापतन्तं महाबलम्। वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः
मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगेन वसुधातले
स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः। प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः
स कथंचिद् विमुक्तस्तैर्वानरैर्वानरर्षभः। उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान्
एतागच्छत गच्छामो भर्ता नो यत्र वानरः। सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति
सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे। अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः। पितृपैतामहं दिव्यं देवैरपि दुरासदम्
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः। घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्
वध्या ह्येते दुरात्मानो नृपाज्ञापरिपन्थिनः। अमर्षप्रभवो रोषः सफलो मे भविष्यति
एवमुक्त्वा दधिमुखो वनपालान् महाबलः। जगाम सहसोत्पत्य वनपालैः समन्वितः
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः। सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च। समप्रतिष्ठां जगतीमाकाशान्निपपात ह
स निपत्य महावीरः सर्वैस्तैः परिवारितः। हरिर्दधिमुखः पालैः पालानां परमेश्वरः
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्। सुग्रीवस्याशु तौ मूर्ध्ना चरणौ प्रत्यपीडयत्
thumb|त्रिषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रिषष्ठितमः सर्गः ॥५-
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः। दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह
उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम। अभयं ते प्रदास्यामि सत्यमेवाभिधीयताम्
किं सम्भ्रमाद्धितं कृत्स्नं ब्रूहि यद् वक्तुमर्हसि। कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर
स समाश्वासितस्तेन सुग्रीवेण महात्मना। उत्थाय स महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्