स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवृद्धवीरः। चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः
उवाच कांश्चित् परुषाण्यभीत- मसक्तमन्यांश्च तलैर्जघान। समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित्
स तैर्मदादप्रतिवार्यवेगै- र्बलाच्च तेन प्रतिवार्यमाणैः। प्रधर्षणे त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्
नखैस्तुदन्तो दशनैर्दशन्त- स्तलैश्च पादैश्च समापयन्तः। मदात् कपिं ते कपयः समन्ता- न्महावनं निर्विषयं च चक्रुः
thumb|द्विषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्विषष्ठितमः सर्गः ॥५-
तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः
अहमावर्जयिष्यामि युष्माकं परिपन्थिनः। श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु। अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया
अकार्यमपि कर्तव्यं किमङ्गं पुनरीदृशम्। अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्। पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम्। ते प्रविष्टा मधुवनं पालानाक्रम्य शक्तितः
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्। पपुः सर्वे मधु तदा रसवत् फलमाददुः
उत्पत्य च ततः सर्वे वनपालान् समागतान्। ते ताडयन्तः शतशः सक्ता मधुवने तदा
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति कपयः केचित् सङ्घशस्तत्र हृष्टवत्
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे। केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः। अपरे वृक्षमूलेषु शाखा गृह्य व्यवस्थिताः
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते। उन्मत्तवेगाः प्लवगा मधुमत्ताश्च हृष्टवत्
क्षिपन्त्यपि तथान्योन्यं स्खलन्ति च तथापरे। केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्
हरयो मधुना मत्ताः केचित् सुप्ता महीतले। धृष्टाः केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत्
कृत्वा केचिद् वदन्त्यन्ये केचिद् बुध्यन्ति चेतरत्। येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः। जानुभिश्च प्रघृष्टाश्च देवमार्गं च दर्शिताः
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः। हनूमता दत्तवरैर्हतं मधुवनं बलात्। वयं च जानुभिर्घृष्टा देवमार्गं च दर्शिताः
तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्
एतागच्छत गच्छामो वानरानतिदर्पितान्। बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम्
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहिता ययुः
मध्ये चैषां दधिमुखः सुप्रगृह्य महातरुम्। समभ्यधावन् वेगेन सर्वे ते च प्लवंगमाः
ते शिलाः पादपांश्चैव पाषाणानपि वानराः। गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः
बलान्निवारयन्तश्च आसेदुर्हरयो हरीन्। संदष्टौष्ठपुटाः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः। अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा
सवृक्षं तं महाबाहुमापतन्तं महाबलम्। वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः