अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च। न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम्
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा। शक्रः सर्वेषु कालेषु दितिं परिचचार ह
पूर्णे वर्षसहस्रे सा दशोने रघुनन्दन। दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत्
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर। अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः
यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम्। त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वर
याचितेन सुरश्रेष्ठ पित्रा तव महात्मना। वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति
इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यं दिनेश्वरे। निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः
दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम्। शिरःस्थाने कृतौ पादौ जहास च मुमोद च
तस्याः शरीरविवरं प्रविवेश पुरंदरः। गर्भं च सप्तधा राम चिच्छेद परमात्मवान्
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा। रुरोद सुस्वरं राम ततो दितिरबुध्यत
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत। बिभेद च महातेजा रुदन्तमपि वासवः
न हन्तव्यं न हन्तव्यमित्येव दितिरब्रवीत्। निष्पपात ततः शक्रो मातुर्वचनगौरवात्
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत। अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि
thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-
सप्तधा तु कृते गर्भे दितिः परमदुःखिता। सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्
ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः। नापराधो हि देवेश तवात्र बलसूदन
प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये। मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक। मारुता इति विख्याता दिव्यरूपा ममात्मजाः
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः। दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्। संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः
त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः। तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरन्दरः
उवाच प्राञ्जलिर्वाक्यमतीदं बलसूदनः। सर्वमेतद् यथोक्तं ते भविष्यति न संशयः
विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः। एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने
जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्। एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा
दितिं यत्र तपःसिद्धामेवं परिचचार सः। इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः। तेन चासीदिह स्थाने विशालेति पुरी कृता
विशालस्य सुतो राम हेमचन्द्रो महाबलः। सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः। धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्। कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः