यद् रक्षति महावीरः सदा दधिमुखः कपिः। मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः
ते तद् वनमुपागम्य बभूवुः परमोत्कटाः। वानरा वानरेन्द्रस्य मनःकान्तं महावनम्
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्। कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन्। अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे
ते निसृष्टाः कुमारेण धीमता वालिसूनुना। हरयः समपद्यन्त द्रुमान् मधुकराकुलान्
भक्षयन्तः सुगन्धीनि मूलानि च फलानि च। जग्मुः प्रहर्षं ते सर्वे बभूवुश्च मदोत्कटाः
ततश्चानुमताः सर्वे सुसंहृष्टा वनौकसः। मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः
गायन्ति केचित् प्रहसन्ति केचि- न्नृत्यन्ति केचित् प्रणमन्ति केचित्। पतन्ति केचित् प्रचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित्
परस्परं केचिदुपाश्रयन्ति परस्परं केचिदतिब्रुवन्ति। द्रुमाद् द्रुमं केचिदभिद्रवन्ति क्षितौ नगाग्रान्निपतन्ति केचित्
महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति। गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति
तुदन्तमन्यः प्रणदन्नुपैति समाकुलं तत् कपिसैन्यमासीत्। न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव दृप्तः
ततो वनं तत् परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान्। समीक्ष्य कोपाद् दधिवक्त्रनामा निवारयामास कपिः कपींस्तान्
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवृद्धवीरः। चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः
उवाच कांश्चित् परुषाण्यभीत- मसक्तमन्यांश्च तलैर्जघान। समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित्
स तैर्मदादप्रतिवार्यवेगै- र्बलाच्च तेन प्रतिवार्यमाणैः। प्रधर्षणे त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्
नखैस्तुदन्तो दशनैर्दशन्त- स्तलैश्च पादैश्च समापयन्तः। मदात् कपिं ते कपयः समन्ता- न्महावनं निर्विषयं च चक्रुः
thumb|द्विषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्विषष्ठितमः सर्गः ॥५-
तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः
अहमावर्जयिष्यामि युष्माकं परिपन्थिनः। श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु। अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया
अकार्यमपि कर्तव्यं किमङ्गं पुनरीदृशम्। अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्। पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम्। ते प्रविष्टा मधुवनं पालानाक्रम्य शक्तितः
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्। पपुः सर्वे मधु तदा रसवत् फलमाददुः
उत्पत्य च ततः सर्वे वनपालान् समागतान्। ते ताडयन्तः शतशः सक्ता मधुवने तदा
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति कपयः केचित् सङ्घशस्तत्र हृष्टवत्
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे। केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः। अपरे वृक्षमूलेषु शाखा गृह्य व्यवस्थिताः
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते। उन्मत्तवेगाः प्लवगा मधुमत्ताश्च हृष्टवत्
क्षिपन्त्यपि तथान्योन्यं स्खलन्ति च तथापरे। केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्