एवमास्ते महाभागा सीता शोकपरायणा। यदत्र प्रतिकर्तव्यं तत् सर्वमुपकल्प्यताम्
thumb|षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षष्ठितमः सर्गः ॥५-
तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत। अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ
पितामहवरोत्सेकात् परमं दर्पमास्थितौ। अश्विनोर्माननार्थं हि सर्वलोकपितामहः
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा। वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्
सुराणाममृतं वीरौ पीतवन्तौ महाबलौ। एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः। अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्
तां लङ्कां तरसा हन्तुं रावणं च महाबलम्। किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः। वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम्
दृष्टा देवी न चानीता इति तत्र निवेदितुम्। न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः
नहि वः प्लवने कश्चिन्नापि कश्चित् पराक्रमे। तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः
जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे। सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता। किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्
रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम्। किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान्
वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान्। राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम्
तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः। उवाच परमप्रीतो वाक्यमर्थवदर्थवित्
नैषा बुद्धिर्महाबुद्धे यद् ब्रवीषि महाकपे। विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम्
नानेतुं कपिराजेन नैव रामेण धीमता। कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत्
राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम्। प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः
सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति। विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च
वृथा च दर्शितं वीर्यं भवेद् वानरपुङ्गवाः। तस्माद् गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः। सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र। यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम्
thumb|एकषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकषष्ठितमः सर्गः ॥५-
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः। अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः
मेरुमन्दरसंकाशा मत्ता इव महागजाः। छादयन्त इवाकाशं महाकाया महाबलाः
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्। हनूमन्तं महावेगं वहन्त इव दृष्टिभिः
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः। समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः। नन्दनोपममासेदुर्वनं द्रुमशतायुतम्
यत् तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्। अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्