देवानपि रणे हन्यात् किं पुनस्तान् निशाचरान्। भवतामननुज्ञातो विक्रमो मे रुणद्धि माम्
सागरोऽप्यतियाद् वेलां मन्दरः प्रचलेदपि। न जाम्बवन्तं समरे कम्पयेदरिवाहिनी
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वजाः। अलमेकोऽपि नाशाय वीरो वालिसुतः कपिः
प्लवगस्योरुवेगेन नीलस्य च महात्मनः। मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु। मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा
अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ। एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे
मयैव निहता लङ्का दग्धा भस्मीकृता पुरी। राजमार्गेषु सर्वेषु नाम विश्रावितं मया
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः
अहं कोसलराजस्य दासः पवनसम्भवः। हनूमानिति सर्वत्र नाम विश्रावितं मया
अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिंशपामूले साध्वी करुणमास्थिता
राक्षसीभिः परिवृता शोकसंतापकर्शिता। मेघरेखापरिवृता चन्द्ररेखेव निष्प्रभा
अचिन्तयन्ती वैदेही रावणं बलदर्पितम्। पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी
अनुरक्ता हि वैदेही रामे सर्वात्मना शुभा। अनन्यचित्ता रामेण पौलोमीव पुरन्दरे
तदेकवासःसंवीता रजोध्वस्ता तथैव च। सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने। एकवेणीधरा दीना भर्तृचिन्तापरायणा
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमोदये। रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया
कथंचिन्मृगशावाक्षी विश्वासमुपपादिता। ततः सम्भाषिता चैव सर्वमर्थं प्रकाशिता
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता। नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा
यन्न हन्ति दशग्रीवं स महात्मा दशाननः। निमित्तमात्रं रामस्तु वधे तस्य भविष्यति
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता। प्रतिपत्पाठशीलस्य विद्येव तनुतां गता
एवमास्ते महाभागा सीता शोकपरायणा। यदत्र प्रतिकर्तव्यं तत् सर्वमुपकल्प्यताम्
thumb|षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षष्ठितमः सर्गः ॥५-
तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत। अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ
पितामहवरोत्सेकात् परमं दर्पमास्थितौ। अश्विनोर्माननार्थं हि सर्वलोकपितामहः
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा। वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्
सुराणाममृतं वीरौ पीतवन्तौ महाबलौ। एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः। अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्
तां लङ्कां तरसा हन्तुं रावणं च महाबलम्। किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः। वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम्
दृष्टा देवी न चानीता इति तत्र निवेदितुम्। न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः