सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः। शीलमासाद्य सीताया मम च प्रीणितं मनः
आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः। तपसा धारयेल्लोकान् क्रुद्धा वा निर्दहेदपि
सर्वथातिप्रकृष्टोऽसौ रावणो राक्षसेश्वरः। यस्य तां स्पृशतो गात्रं तपसा न विनाशितम्
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती। जनकस्य सुता कुर्याद् यत् क्रोधकलुषीकृता
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन्। अस्मिन् नेवंगते कार्ये भवतां च निवेदिते। न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्। तां लङ्कां तरसा हन्तुं रावणं च महाबलम्
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः। कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्। सहपुत्रं वधिष्यामि सहोदरयुतं युधि
ब्राह्ममस्त्रं च रौद्रं च वायव्यं वारुणं तथा। यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे। तान्यहं निहनिष्यामि विधमिष्यामि राक्षसान्
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्। मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा
देवानपि रणे हन्यात् किं पुनस्तान् निशाचरान्। भवतामननुज्ञातो विक्रमो मे रुणद्धि माम्
सागरोऽप्यतियाद् वेलां मन्दरः प्रचलेदपि। न जाम्बवन्तं समरे कम्पयेदरिवाहिनी
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वजाः। अलमेकोऽपि नाशाय वीरो वालिसुतः कपिः
प्लवगस्योरुवेगेन नीलस्य च महात्मनः। मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु। मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा
अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ। एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे
मयैव निहता लङ्का दग्धा भस्मीकृता पुरी। राजमार्गेषु सर्वेषु नाम विश्रावितं मया
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः
अहं कोसलराजस्य दासः पवनसम्भवः। हनूमानिति सर्वत्र नाम विश्रावितं मया
अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिंशपामूले साध्वी करुणमास्थिता
राक्षसीभिः परिवृता शोकसंतापकर्शिता। मेघरेखापरिवृता चन्द्ररेखेव निष्प्रभा
अचिन्तयन्ती वैदेही रावणं बलदर्पितम्। पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी
अनुरक्ता हि वैदेही रामे सर्वात्मना शुभा। अनन्यचित्ता रामेण पौलोमीव पुरन्दरे
तदेकवासःसंवीता रजोध्वस्ता तथैव च। सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने। एकवेणीधरा दीना भर्तृचिन्तापरायणा
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमोदये। रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया
कथंचिन्मृगशावाक्षी विश्वासमुपपादिता। ततः सम्भाषिता चैव सर्वमर्थं प्रकाशिता
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता। नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा
यन्न हन्ति दशग्रीवं स महात्मा दशाननः। निमित्तमात्रं रामस्तु वधे तस्य भविष्यति
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता। प्रतिपत्पाठशीलस्य विद्येव तनुतां गता