जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्। ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्
अदग्धा जानकीत्येव निमित्तैश्चोपलक्षितम्। दीप्यमाने तु लाङ्गूले न मां दहति पावकः
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः। तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः
ऋषिवाक्यैश्च दृष्टार्थैरभवं हृष्टमानसः। पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः। प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया
ततः श्वसनचन्द्रार्कसिद्धगन्धर्वसेवितम्। पन्थानमहमाक्रम्य भवतो दृष्टवानिह
राघवस्य प्रसादेन भवतां चैव तेजसा। सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्
एतत् सर्वं मया तत्र यथावदुपपादितम्। तत्र यन्न कृतं शेषं तत् सर्वं क्रियतामिति
thumb|एकोनषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकोनषष्ठितमः सर्गः ॥५-
एतदाख्याय तत् सर्वं हनूमान् मारुतात्मजः। भूयः समुपचक्राम वचनं वक्तुमुत्तरम्
सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः। शीलमासाद्य सीताया मम च प्रीणितं मनः
आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः। तपसा धारयेल्लोकान् क्रुद्धा वा निर्दहेदपि
सर्वथातिप्रकृष्टोऽसौ रावणो राक्षसेश्वरः। यस्य तां स्पृशतो गात्रं तपसा न विनाशितम्
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती। जनकस्य सुता कुर्याद् यत् क्रोधकलुषीकृता
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन्। अस्मिन् नेवंगते कार्ये भवतां च निवेदिते। न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्। तां लङ्कां तरसा हन्तुं रावणं च महाबलम्
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः। कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्। सहपुत्रं वधिष्यामि सहोदरयुतं युधि
ब्राह्ममस्त्रं च रौद्रं च वायव्यं वारुणं तथा। यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे। तान्यहं निहनिष्यामि विधमिष्यामि राक्षसान्
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्। मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा
देवानपि रणे हन्यात् किं पुनस्तान् निशाचरान्। भवतामननुज्ञातो विक्रमो मे रुणद्धि माम्
सागरोऽप्यतियाद् वेलां मन्दरः प्रचलेदपि। न जाम्बवन्तं समरे कम्पयेदरिवाहिनी
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वजाः। अलमेकोऽपि नाशाय वीरो वालिसुतः कपिः
प्लवगस्योरुवेगेन नीलस्य च महात्मनः। मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु। मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा
अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ। एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे
मयैव निहता लङ्का दग्धा भस्मीकृता पुरी। राजमार्गेषु सर्वेषु नाम विश्रावितं मया
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः
अहं कोसलराजस्य दासः पवनसम्भवः। हनूमानिति सर्वत्र नाम विश्रावितं मया
अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिंशपामूले साध्वी करुणमास्थिता