रावणस्य समीपं च गृहीत्वा मामुपागमन्। दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्। तत्सर्वं च रणे तत्र सीतार्थमुपजल्पितम्
तस्यास्तु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो। मारुतस्यौरसः पुत्रो वानरो हनुमानहम्
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्। सोऽहं दौत्येन रामस्य त्वत्सकाशमिहागतः
शृणु चापि समादेशं यदहं प्रब्रवीमि ते। राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम्
सुग्रीवश्च महाभागः स त्वां कौशलमब्रवीत्। धर्मार्थकामसहितं हितं पथ्यमुवाच ह
वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे। राघवो रणविक्रान्तो मित्रत्वं समुपागतः
तेन मे कथितं राजन् भार्या मे रक्षसा हृता। तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि
वालिना हृतराज्येन सुग्रीवेण सह प्रभुः। चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः
तेन वालिनमाहत्य शरेणैकेन संयुगे। वानराणां महाराजः कृतः सम्प्लवतां प्रभुः
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह। तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः
क्षिप्रमानीयतां सीता दीयतां राघवस्य च। यावन्न हरयो वीरा विधमन्ति बलं तव
वानराणां प्रभावोऽयं न केन विदितः पुरा। देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः
इति वानरराजस्त्वामाहेत्यभिहितो मया। मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा। मत्प्रभावमविज्ञाय रावणेन दुरात्मना
ततो विभीषणो नाम तस्य भ्राता महामतिः। तेन राक्षसराजश्च याचितो मम कारणात्
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः। राजशास्त्रव्यपेतो हि मार्गः संलक्ष्यते त्वया
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस। दूतेन वेदितव्यं च यथाभिहितवादिना
सुमहत्यपराधेऽपि दूतस्यातुलविक्रम। विरूपकरणं दृष्टं न वधोऽस्ति हि शास्त्रतः
विभीषणेनैवमुक्तो रावणः संदिदेश तान्। राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति
ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः। वेष्टितं शणवल्कैश्च पट्टैः कार्पासकैस्तथा
राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः। तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः। न मे पीडाभवत् काचिद् दिदृक्षोर्नगरीं दिवा
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्। अघोषयन् राजमार्गे नगरद्वारमागताः
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः। विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्। ततस्तन्नगरद्वारं वेगेन प्लुतवानहम्
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्। दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी
दहता च मया लङ्कां दग्धा सीता न संशयः। रामस्य च महत्कार्यं मयेदं विफलीकृतम्
इति शोकसमाविष्टश्चिन्तामहमुपागतः। ततोऽहं वाचमश्रौषं चारणानां शुभाक्षराम्