प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्। राघवस्य मनोह्लादमभिज्ञानमयाचिषम्
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः। मणिर्येन महाबाहू रामस्त्वां बहु मन्यते
इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम्। प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः। प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः
उत्तरं पुनरेवाह निश्चित्य मनसा तदा। हनूमन् मम वृत्तान्तं वक्तुमर्हसि राघवे
यथा श्रुत्वैव नचिरात् तावुभौ रामलक्ष्मणौ। सुग्रीवसहितौ वीरावुपेयातां तथा कुरु
यदन्यथा भवेदेतद् द्वौ मासौ जीवितं मम। न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत। उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्
ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः। युद्धाकाङ्क्षी वनं तस्य विनाशयितुमारभे
तद् भग्नं वनखण्डं तु भ्रान्तत्रस्तमृगद्विजम्। प्रतिबुद्ध्य निरीक्षन्ते राक्षस्यो विकृताननाः
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः। ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना। वानरेण ह्यविज्ञाय तव वीर्यं महाबल
तस्य दुर्बुद्धिता राजंस्तव विप्रियकारिणः। वधमाज्ञापय क्षिप्रं यथासौ न पुनर्व्रजेत्
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा बहुदुर्जयाः। राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्। मया तस्मिन् वनोद्देशे परिघेण निषूदितम्
तेषां तु हतशिष्टा ये ते गता लघुविक्रमाः। निहतं च मया सैन्यं रावणायाचचक्षिरे
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमुत्तमम्। तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः
ललामभूतो लङ्काया मया विध्वंसितो रुषा। ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्
राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः। तमहं बलसम्पन्नं राक्षसं रणकोविदम्
परिघेणातिघोरेण सूदयामि सहानुगम्। तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान्
पदातिबलसम्पन्नान् प्रेषयामास रावणः। परिघेणैव तान् सर्वान् नयामि यमसादनम्
मन्त्रिपुत्रान् हतान् श्रुत्वा समरे लघुविक्रमान्। पञ्च सेनाग्रगान् शूरान् प्रेषयामास रावणः
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्। ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्
बहुभी राक्षसैः सार्धं प्रेषयामास संयुगे। तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम्
सहसा खं समुद्यन्तं पादयोश्च गृहीतवान्। तमासीनं शतगुणं भ्रामयित्वा व्यपेषयम्
तमक्षमागतं भग्नं निशम्य स दशाननः। ततश्चेन्द्रजितं नाम द्वितीयं रावणः सुतम्
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्। तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम्
नष्टौजसं रणे कृत्वा परं हर्षमुपागतः। महतापि महाबाहुः प्रत्ययेन महाबलः
प्रहितो रावणेनैष सह वीरैर्मदोद्धतैः। सोऽविषह्यं हि मां बुद्ध्वा स्वसैन्यं चावमर्दितम्
ब्रह्मणोऽस्त्रेण स तु मां प्रबद्ध्वा चातिवेगिनः। रज्जुभिश्चापि बध्नन्ति ततो मां तत्र राक्षसाः