तृणवद् भाषितं तासां गणयामास जानकी। गर्जितं च तथा तासां सीतां प्राप्य निरर्थकम्
वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः। रावणाय शशंसुस्ताः सीताव्यवसितं महत्
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः। परिक्लिश्य समस्तास्ता निद्रावशमुपागताः
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता। विलप्य करुणं दीना प्रशुशोच सुदुःखिता
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्। आत्मानं खादत क्षिप्रं न सीतामसितेक्षणाम्
जनकस्यात्मजां साध्वीं स्नुषां दशरथस्य च। स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः
रक्षसां च विनाशाय भर्तुरस्या जयाय च। अलमस्मान् परित्रातुं राघवाद् राक्षसीगणम्
अभियाचाम वैदेहीमेतद्धि मम रोचते। यदि ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्। प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा
अलमेषा परित्रातुं राक्षस्यो महतो भयात्। ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता
अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः। तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्
चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः। सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः
इक्ष्वाकुकुलवंशस्तु स्तुतो मम पुरस्कृतः। श्रुत्वा तु गदितां वाचं राजर्षिगणभूषिताम्
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना। कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि। तस्यास्तद् वचनं श्रुत्वा अहमप्यब्रुवं वचः
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः। सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः
तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्। भर्त्रा सम्प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा
इदं तु पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्। अङ्गुलीयमभिज्ञानमदात् तुभ्यं यशस्विनि
तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्। रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी। आह रावणमुत्पाट्य राघवो मां नयत्विति
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्। राघवस्य मनोह्लादमभिज्ञानमयाचिषम्
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः। मणिर्येन महाबाहू रामस्त्वां बहु मन्यते
इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम्। प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह
ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः। प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः
उत्तरं पुनरेवाह निश्चित्य मनसा तदा। हनूमन् मम वृत्तान्तं वक्तुमर्हसि राघवे
यथा श्रुत्वैव नचिरात् तावुभौ रामलक्ष्मणौ। सुग्रीवसहितौ वीरावुपेयातां तथा कुरु
यदन्यथा भवेदेतद् द्वौ मासौ जीवितं मम। न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत। उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्
ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः। युद्धाकाङ्क्षी वनं तस्य विनाशयितुमारभे
तद् भग्नं वनखण्डं तु भ्रान्तत्रस्तमृगद्विजम्। प्रतिबुद्ध्य निरीक्षन्ते राक्षस्यो विकृताननाः