अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते। यस्मात् तस्माद् विजेतासि सर्वरक्षांस्यशेषतः
तत्राहं सर्वरात्रं तु विचरञ्जनकात्मजाम्। रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्
ततः सीतामपश्यंस्तु रावणस्य निवेशने। शोकसागरमासाद्य न पारमुपलक्षये
शोचता च मया दृष्टं प्राकारेणाभिसंवृतम्। काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्
सप्राकारमवप्लुत्य पश्यामि बहुपादपम्। अशोकवनिकामध्ये शिंशपापादपो महान्
तमारुह्य च पश्यामि काञ्चनं कदलीवनम्। अदूराच्छिंशपावृक्षात् पश्यामि वरवर्णिनीम्
श्यामां कमलपत्राक्षीमुपवासकृशाननाम्। तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम्
मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा। सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः
एकवेणीधरा दीना भर्तृचिन्तापरायणा। भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे
रावणाद् विनिवृत्तार्था मर्तव्ये कृतनिश्चया। कथंचिन्मृगशावाक्षी तूर्णमासादिता मया
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्। तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्। शृणोम्यधिकगम्भीरं रावणस्य निवेशने
ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्। अहं च शिंशपावृक्षे पक्षीव गहने स्थितः
ततो रावणदाराश्च रावणश्च महाबलः। तं देशमनुसम्प्राप्तो यत्र सीताभवत् स्थिता
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्। संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च
वित्रस्तां परमोद्विग्नां वीक्ष्यमाणामितस्ततः। त्राणं कंचिदपश्यन्तीं वेपमानां तपस्विनीम्
तामुवाच दशग्रीवः सीतां परमदुःखिताम्। अवाक्शिराः प्रपतितो बहुमन्यस्व मामिति
यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते। द्विमासानन्तरं सीते पास्यामि रुधिरं तव
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः। उवाच परमक्रुद्धा सीता वचनमुत्तमम्
राक्षसाधम रामस्य भार्याममिततेजसः। इक्ष्वाकुवंशनाथस्य स्नुषां दशरथस्य च
अवाच्यं वदतो जिह्वा कथं न पतिता तव। किंस्विद्वीर्य तवानार्य यो मां भर्तुरसंनिधौ
अपहृत्यागतः पाप तेनादृष्टो महात्मना। न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे
अजेयः सत्यवाक् शूरो रणश्लाघी च राघवः। जानक्या परुषं वाक्यमेवमुक्तो दशाननः
जज्वाल सहसा कोपाच्चितास्थ इव पावकः। विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा। स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः
वरा मन्दोदरी नाम तया स प्रतिषेधितः। उक्तश्च मधुरां वाणीं तया स मदनार्दितः
सीतया तव किं कार्यं महेन्द्रसमविक्रम। मया सह रमस्वाद्य मद्विशिष्टा न जानकी
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च। सार्धं प्रभो रमस्वेति सीतया किं करिष्यसि
ततस्ताभिः समेताभिर्नारीभिः स महाबलः। उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः। सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः