उत्तमं जवमास्थाय शेषमध्वानमास्थितः। ततोऽहं सुचिरं कालं जवेनाभ्यगमं पथि
ततः पश्याम्यहं देवीं सुरसां नागमातरम्। समुद्रमध्ये सा देवी वचनं चेदमब्रवीत्
मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम। ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः। विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः
तस्य सीता हृता भार्या रावणेन दुरात्मना। तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्
कर्तुमर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते। एवमुक्ता मया सा तु सुरसा कामरूपिणी
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम। एवमुक्तः सुरसया दशयोजनमायतः
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु। मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया
तद् दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं पुनः। तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठसम्मितः
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् । अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः
अर्थसिद्धौ हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना
सुखी भव महाबाहो प्रीतास्मि तव वानर। ततोऽहं साधुसाध्वीति सर्वभूतैः प्रशंसितः
ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा। छाया मे निगृहीता च न च पश्यामि किंचन
सोऽहं विगतवेगस्तु दिशो दश विलोकयन्। न किंचित् तत्र पश्यामि येन मे विहता गतिः
अथ मे बुद्धिरुत्पन्ना किंनाम गमने मम। ईदृशो विघ्न उत्पन्नो रूपमत्र न दृश्यते
अधोभागे तु मे दृष्टिः शोचतः पतिता तदा। तत्राद्राक्षमहं भीमां राक्षसीं सलिलेशयाम्
प्रहस्य च महानादमुक्तोऽहं भीमया तया। अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम्
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः। भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः। आस्यप्रमाणादधिकं तस्याः कायमपूरयम्
तस्याश्चास्यं महद् भीमं वर्धते मम भक्षणे। न तु मां सा नु बुबुधे मम वा विकृतं कृतम्
ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्। तस्या हृदयमादाय प्रपतामि नभःस्थलम्
सा विसृष्टभुजा भीमा पपात लवणाम्भसि। मया पर्वतसंकाशा निकृत्तहृदया सती
शृणोमि खगतानां च वाचः सौम्या महात्मनाम्। राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्। गत्वा च महदध्वानं पश्यामि नगमण्डितम्
दक्षिणं तीरमुदधेर्लङ्का यत्र गता पुरी। अस्तं दिनकरे याते रक्षसां निलयं पुरीम्
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः। तत्र प्रविशतश्चापि कल्पान्तघनसप्रभा
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः। जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्। प्रदोषकाले प्रविशं भीतयाहं तयोदितः