ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः। हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्
प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु। तं ततः प्रतिसंहृष्टः प्रीतियुक्तं महाकपिम्
जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम्। कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते
तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः। तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे
सम्मार्गिता कथं देवी किं च सा प्रत्यभाषत। श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्। रक्षितव्यं च यत्तत्र तद् भवान् व्याकरोतु नः
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः। नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः। उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्। काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्। उपसंगम्य तं दिव्यं काञ्चनं नगमुत्तमम्
कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च। प्रहतस्य मया तस्य लाङ्गूलेन महागिरेः
शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा। व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव। पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः
मैनाकमिति विख्यातं निवसन्तं महोदधौ। पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः। श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः
वज्रेण भगवान् पक्षौ चिच्छेदैषां सहस्रशः। अहं तु मोचितस्तस्मात् तव पित्रा महात्मना
मारुतेन तदा वत्स प्रक्षिप्तो वरुणालये। राघवस्य मया साह्ये वर्तितव्यमरिंदम
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः। एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः
कार्यमावेद्य च गिरेरुद्धतं वै मनो मम। तेन चाहमनुज्ञातो मैनाकेन महात्मना
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता। शरीरेण महाशैलः शैलेन च महोदधौ
उत्तमं जवमास्थाय शेषमध्वानमास्थितः। ततोऽहं सुचिरं कालं जवेनाभ्यगमं पथि
ततः पश्याम्यहं देवीं सुरसां नागमातरम्। समुद्रमध्ये सा देवी वचनं चेदमब्रवीत्
मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम। ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः। विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः
तस्य सीता हृता भार्या रावणेन दुरात्मना। तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्
कर्तुमर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते। एवमुक्ता मया सा तु सुरसा कामरूपिणी
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम। एवमुक्तः सुरसया दशयोजनमायतः
ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु। मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया