हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा। कुमारमङ्गदं चैव सोऽवन्दत महाकपिः
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत्
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम्। रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा
हनूमानब्रवीत् पृष्टस्तदा तान् वानरर्षभान्। अशोकवनिकासंस्था दृष्टा सा जनकात्मजा
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता। एकवेणीधरा बाला रामदर्शनलालसा
उपवासपरिश्रान्ता मलिना जटिला कृशा। ततो दृष्टेति वचनं महार्थममृतोपमम्
निशम्य मारुतेः सर्वे मुदिता वानराभवन्। क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः
चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे। केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः
आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः। अपरे तु हनूमन्तं श्रीमन्तं वानरोत्तमम्
आप्लुत्य गिरिशृङ्गेषु संस्पृशन्ति स्म हर्षिताः। उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत्
सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम्। सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः। जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम
त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह। अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी। दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम्
ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः। परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः
उपविष्टा गिरेस्तस्य शिलासु विपुलासु ते। श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः
दर्शनं चापि लङ्कायाः सीताया रावणस्य च। तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः। उपास्यमानो विबुधैर्दिवि देवपतिर्यथा
हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदनद्धबाहुना। मुदा तदाध्यासितमुन्नतं मह- न्महीधराग्रं ज्वलितं श्रियाभवत्
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥५-
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः। हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्
प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु। तं ततः प्रतिसंहृष्टः प्रीतियुक्तं महाकपिम्
जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम्। कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते
तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः। तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे
सम्मार्गिता कथं देवी किं च सा प्रत्यभाषत। श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्। रक्षितव्यं च यत्तत्र तद् भवान् व्याकरोतु नः
स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः। नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः। उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्। काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्। उपसंगम्य तं दिव्यं काञ्चनं नगमुत्तमम्