ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम्। त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि। इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः
पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः। पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः। अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्
उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः। पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः
अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्। असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः। अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः
वरुणस्य ततः कन्या वारुणी रघुनन्दन। उत्पपात महाभागा मार्गमाणा परिग्रहम्
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्। अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः। हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्। उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्
अथ तस्य कृते राम महानासीत् कुलक्षयः। अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्
एकतामगमन् सर्वे असुरा राक्षसैः सह। युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः। अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्
ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्। सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना
अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे। अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्
thumb|षट्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता। मारीचं कश्यपं नाम भर्तारमिदमब्रवीत्
हतपुत्रास्मि भगवंस्तव पुत्रौर्महाबलैः। शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम्
साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि। ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा। प्रत्युवाच महातेजा दितिं परमदुःखिताम्
एवं भवतु भद्रं ते शुचिर्भव तपोधने। जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि। पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि
एवमुक्त्वा महातेजाः पाणिना सम्ममार्ज ताम्। तामालभ्य ततः स्वस्ति इत्युक्त्वा तपसे ययौ
गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता। कुशप्लवं समासाद्य तपस्तेपे सुदारुणम्
तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह। सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च। न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम्
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा। शक्रः सर्वेषु कालेषु दितिं परिचचार ह
पूर्णे वर्षसहस्रे सा दशोने रघुनन्दन। दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत्