महेन्द्रं मेघसंकाशं ननाद स महाकपिः। स पूरयामास कपिर्दिशो दश समन्ततः
नदन् नादेन महता मेघस्वनमहास्वनः। स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः
ननाद सुमहानादं लाङ्गूलं चाप्यकम्पयत्। तस्य नानद्यमानस्य सुपर्णाचरिते पथि
फलतीवास्य घोषेण गगनं सार्कमण्डलम्। ये तु तत्रोत्तरे कूले समुद्रस्य महाबलाः
पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः। महतो वायुनुन्नस्य तोयदस्येव निःस्वनम्। शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः
ते दीनमनसः सर्वे शुश्रुवुः काननौकसः। वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम्
निशम्य नदतो नादं वानरास्ते समन्ततः। बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः। उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत्
सर्वथा कृतकार्योऽसौ हनूमान् नात्र संशयः। न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्
तस्य बाहूरुवेगं च निनादं च महात्मनः। निशम्य हरयो हृष्टाः समुत्पेतुर्यतस्ततः
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च। प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः
ते प्रीताः पादपाग्रेषु गृह्य शाखामवस्थिताः। वासांसि च प्रकाशानि समाविध्यन्त वानराः
गिरिगह्वरसंलीनो यथा गर्जति मारुतः। एवं जगर्ज बलवान् हनूमान् मारुतात्मजः
तमभ्रघनसंकाशमापतन्तं महाकपिम्। दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा
ततस्तु वेगवान् वीरो गिरेर्गिरिनिभः कपिः। निपपात गिरेस्तस्य शिखरे पादपाकुले
हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे। छिन्नपक्ष इवाकाशात् पपात धरणीधरः
ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः। हनूमन्तं महात्मानं परिवार्योपतस्थिरे
परिवार्य च ते सर्वे परां प्रीतिमुपागताः। प्रहृष्टवदनाः सर्वे तमागतमुपागमन्
उपायनानि चादाय मूलानि च फलानि च। प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम्
विनेदुर्मुदिताः केचित् केचित् किलकिलां तथा। हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः
हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा। कुमारमङ्गदं चैव सोऽवन्दत महाकपिः
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत्
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम्। रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा
हनूमानब्रवीत् पृष्टस्तदा तान् वानरर्षभान्। अशोकवनिकासंस्था दृष्टा सा जनकात्मजा
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता। एकवेणीधरा बाला रामदर्शनलालसा
उपवासपरिश्रान्ता मलिना जटिला कृशा। ततो दृष्टेति वचनं महार्थममृतोपमम्
निशम्य मारुतेः सर्वे मुदिता वानराभवन्। क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः
चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे। केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः
आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः। अपरे तु हनूमन्तं श्रीमन्तं वानरोत्तमम्
आप्लुत्य गिरिशृङ्गेषु संस्पृशन्ति स्म हर्षिताः। उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत्