व्याघ्रादिभिः समाकीर्णं स्वादुमूलफलद्रुमम्। आरुरोहानिलसुतः पर्वतं प्लवगोत्तमः
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः। तेन पादतलक्रान्ता रम्येषु गिरिसानुषु
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः। स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः
दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः। अधिरुह्य ततो वीरः पर्वतं पवनात्मजः
ददर्श सागरं भीमं भीमोरगनिषेवितम्। स मारुत इवाकाशं मारुतस्यात्मसम्भवः
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्। स तदा पीडितस्तेन कपिना पर्वतोत्तमः
ररास विविधैर्भूतैः प्राविशद् वसुधातलम्। कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः। निपेतुर्भूतले भग्नाः शक्रायुधहता इव
कन्दरोदरसंस्थानां पीडितानां महौजसाम्। सिंहानां निनदो भीमो नभो भिन्दन् हि शुश्रुवे
त्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः। विद्याधर्यः समुत्पेतुः सहसा धरणीधरात्
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः। निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः
किंनरोरगगन्धर्वयक्षविद्याधरास्तथा। पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः
स च भूमिधरः श्रीमान् बलिना तेन पीडितः। सवृक्षशिखरोदग्रः प्रविवेश रसातलम्
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः। धरण्यां समतां यातः स बभूव धराधरः
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम्। कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः
thumb|सप्तपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥५-
आप्लुत्य च महावेगः पक्षवानिव पर्वतः। भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम्
स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्। तिष्यश्रवणकादम्बमभ्रशैवलशाद्वलम्
पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम्। ऐरावतमहाद्वीपं स्वातीहंसविलासितम्
वातसंघातजालोर्मिचन्द्रांशुशिशिराम्बुमत्। हनूमानपरिश्रान्तः पुप्लुवे गगनार्णवम्
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन्। हरन्निव सनक्षत्रं गगनं सार्कमण्डलम्
अपारमपरिश्रान्तश्चाम्बुधिं समगाहत। हनूमान् मेघजालानि विकर्षन्निव गच्छति
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च। हरितारुणवर्णानि महाभ्राणि चकाशिरे
प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः। प्रकाशश्चाप्रकाशश्च चन्द्रमा इव दृश्यते
विविधाभ्रघनापन्नगोचरो धवलाम्बरः। दृश्यादृश्यतनुर्वीरस्तथा चन्द्रायतेऽम्बरे
तार्क्ष््यायमाणो गगने स बभौ वायुनन्दनः। दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः
नदन् नादेन महता मेघस्वनमहास्वनः। प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम्। अर्दयित्वा महावीरान् वैदेहीमभिवाद्य च
आजगाम महातेजाः पुनर्मध्येन सागरम्। पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्
ज्यामुक्त इव नाराचो महावेगोऽभ्युपागमत्। स किंचिदारात् सम्प्राप्तः समालोक्य महागिरिम्