सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः। बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः
उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः। तोयौघनिःस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम्
प्रगीतमिव विस्पष्टं नानाप्रस्रवणस्वनैः। देवदारुभिरुद्धूतैरूर्ध्वबाहुमिव स्थितम्
प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः। वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः
वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः। निःश्वसन्तमिवामर्षाद् घोरैराशीविषोत्तमैः
नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः। मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः
जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः। कूटैश्च बहुधा कीर्णं शोभितं बहुकन्दरैः
सालतालैश्च कर्णैश्च वंशैश्च बहुभिर्वृतम्। लतावितानैर्विततैः पुष्पवद्भिरलंकृतम्
नानामृगगणैः कीर्णं धातुनिष्यन्दभूषितम्। बहुप्रस्रवणोपेतं शिलासंचयसंकटम्
महर्षियक्षगन्धर्वकिंनरोरगसेवितम्। लतापादपसम्बाधं सिंहाधिष्ठितकन्दरम्
व्याघ्रादिभिः समाकीर्णं स्वादुमूलफलद्रुमम्। आरुरोहानिलसुतः पर्वतं प्लवगोत्तमः
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः। तेन पादतलक्रान्ता रम्येषु गिरिसानुषु
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः। स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः
दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः। अधिरुह्य ततो वीरः पर्वतं पवनात्मजः
ददर्श सागरं भीमं भीमोरगनिषेवितम्। स मारुत इवाकाशं मारुतस्यात्मसम्भवः
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्। स तदा पीडितस्तेन कपिना पर्वतोत्तमः
ररास विविधैर्भूतैः प्राविशद् वसुधातलम्। कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः। निपेतुर्भूतले भग्नाः शक्रायुधहता इव
कन्दरोदरसंस्थानां पीडितानां महौजसाम्। सिंहानां निनदो भीमो नभो भिन्दन् हि शुश्रुवे
त्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः। विद्याधर्यः समुत्पेतुः सहसा धरणीधरात्
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः। निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः
किंनरोरगगन्धर्वयक्षविद्याधरास्तथा। पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः
स च भूमिधरः श्रीमान् बलिना तेन पीडितः। सवृक्षशिखरोदग्रः प्रविवेश रसातलम्
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः। धरण्यां समतां यातः स बभूव धराधरः
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम्। कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः
thumb|सप्तपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ॥५-
आप्लुत्य च महावेगः पक्षवानिव पर्वतः। भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम्
स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्। तिष्यश्रवणकादम्बमभ्रशैवलशाद्वलम्
पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम्। ऐरावतमहाद्वीपं स्वातीहंसविलासितम्
वातसंघातजालोर्मिचन्द्रांशुशिशिराम्बुमत्। हनूमानपरिश्रान्तः पुप्लुवे गगनार्णवम्