इति शुश्राव हनुमान् वाचं ताममृतोपमाम्। बभूव चास्य मनसो हर्षस्तत्कालसम्भवः
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः
ततः कपिः प्राप्तमनोरथार्थ- स्तामक्षतां राजसुतां विदित्वा। प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥५-
ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम्। अभिवाद्याब्रवीद् दिष्ट्या पश्यामि त्वामिहाक्षताम्
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तुः स्नेहान्विता वाक्यं हनूमन्तमभाषत
यदि त्वं मन्यसे तात वसैकाहमिहानघ। क्वचित् सुसंवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर। शोकस्यास्याप्रमेयस्य मुहूर्तं स्यादपि क्षयः
गते हि हरिशार्दूल पुनः सम्प्राप्तये त्वयि। प्राणेष्वपि न विश्वासो मम वानरपुङ्गव
अदर्शनं च ते वीर भूयो मां दारयिष्यति। दुःखाद् दुःखतरं प्राप्तां दुर्मनःशोककर्शिताम्
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहत्सु सहायेषु हर्यृक्षेषु महाबलः
कथं नु खलु दुष्पारं संतरिष्यति सागरम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणामेव भूतानां सागरस्यापि लङ्घने। शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा
तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे। किं पश्यसि समाधानं त्वं हि कार्यविशारदः
काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्
तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशूरस्य तथा त्वमुपपादय
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमान् वीरो वाक्यमुत्तरमब्रवीत्
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः
स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः
तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः
सगणं राक्षसं हत्वा नचिराद् रघुनन्दनः। त्वामादाय वरारोहे स्वां पुरीं प्रति यास्यति
समाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी। क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे। त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्युतः। यस्ते युधि विजित्यारीञ्छोकं व्यपनयिष्यति
एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्
राक्षसान् प्रवरान् हत्वा नाम विश्राव्य चात्मनः। समाश्वास्य च वैदेहीं दर्शयित्वा परं बलम्
नगरीमाकुलां कृत्वा वञ्चयित्वा च रावणम्। दर्शयित्वा बलं घोरं वैदेहीमभिवाद्य च
प्रतिगन्तुं मनश्चक्रे पुनर्मध्येन सागरम्। ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः। तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः