नूनं रामप्रभावेण वैदेह्याः सुकृतेन च। यन्मां दहनकर्मायं नादहद्धव्यवाहनः
त्रयाणां भरतादीनां भ्रातॄणां देवता च या। रामस्य च मनःकान्ता सा कथं विनशिष्यति
यद् वा दहनकर्मायं सर्वत्र प्रभुरव्ययः। न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति
पुनश्चाचिन्तयत् तत्र हनूमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि। असौ विनिर्दहेदग्निं न तामग्निः प्रधक्ष्यति
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्। शुश्राव हनुमांस्तत्र चारणानां महात्मनाम्
अहो खलु कृतं कर्म दुर्विगाहं हनूमता। अग्निं विसृजता तीक्ष्णं भीमं राक्षससद्मनि
प्रपलायितरक्षःस्त्रीबालवृद्धसमाकुला। जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः
दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा। जानकी न च दग्धेति विस्मयोऽद्भुत एव नः
इति शुश्राव हनुमान् वाचं ताममृतोपमाम्। बभूव चास्य मनसो हर्षस्तत्कालसम्भवः
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः
ततः कपिः प्राप्तमनोरथार्थ- स्तामक्षतां राजसुतां विदित्वा। प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥५-
ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम्। अभिवाद्याब्रवीद् दिष्ट्या पश्यामि त्वामिहाक्षताम्
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तुः स्नेहान्विता वाक्यं हनूमन्तमभाषत
यदि त्वं मन्यसे तात वसैकाहमिहानघ। क्वचित् सुसंवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर। शोकस्यास्याप्रमेयस्य मुहूर्तं स्यादपि क्षयः
गते हि हरिशार्दूल पुनः सम्प्राप्तये त्वयि। प्राणेष्वपि न विश्वासो मम वानरपुङ्गव
अदर्शनं च ते वीर भूयो मां दारयिष्यति। दुःखाद् दुःखतरं प्राप्तां दुर्मनःशोककर्शिताम्
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहत्सु सहायेषु हर्यृक्षेषु महाबलः
कथं नु खलु दुष्पारं संतरिष्यति सागरम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणामेव भूतानां सागरस्यापि लङ्घने। शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा
तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे। किं पश्यसि समाधानं त्वं हि कार्यविशारदः
काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्
तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशूरस्य तथा त्वमुपपादय
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमान् वीरो वाक्यमुत्तरमब्रवीत्
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः
स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः
तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः