किमग्नौ निपताम्यद्य आहोस्विद् वडवामुखे। शरीरमिह सत्त्वानां दद्मि सागरवासिनाम्
कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्। प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्
धिगस्तु राजसं भावमनीशमनवस्थितम्। ईश्वरेणापि यद् रागान्मया सीता न रक्षिता
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः। तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्। भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः
इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे। पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत्
अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा। न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते
नहि धर्मात्मनस्तस्य भार्याममिततेजसः। स्वचरित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः
नूनं रामप्रभावेण वैदेह्याः सुकृतेन च। यन्मां दहनकर्मायं नादहद्धव्यवाहनः
त्रयाणां भरतादीनां भ्रातॄणां देवता च या। रामस्य च मनःकान्ता सा कथं विनशिष्यति
यद् वा दहनकर्मायं सर्वत्र प्रभुरव्ययः। न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति
पुनश्चाचिन्तयत् तत्र हनूमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि। असौ विनिर्दहेदग्निं न तामग्निः प्रधक्ष्यति
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्। शुश्राव हनुमांस्तत्र चारणानां महात्मनाम्
अहो खलु कृतं कर्म दुर्विगाहं हनूमता। अग्निं विसृजता तीक्ष्णं भीमं राक्षससद्मनि
प्रपलायितरक्षःस्त्रीबालवृद्धसमाकुला। जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः
दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा। जानकी न च दग्धेति विस्मयोऽद्भुत एव नः
इति शुश्राव हनुमान् वाचं ताममृतोपमाम्। बभूव चास्य मनसो हर्षस्तत्कालसम्भवः
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः
ततः कपिः प्राप्तमनोरथार्थ- स्तामक्षतां राजसुतां विदित्वा। प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥५-
ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम्। अभिवाद्याब्रवीद् दिष्ट्या पश्यामि त्वामिहाक्षताम्
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तुः स्नेहान्विता वाक्यं हनूमन्तमभाषत
यदि त्वं मन्यसे तात वसैकाहमिहानघ। क्वचित् सुसंवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर। शोकस्यास्याप्रमेयस्य मुहूर्तं स्यादपि क्षयः
गते हि हरिशार्दूल पुनः सम्प्राप्तये त्वयि। प्राणेष्वपि न विश्वासो मम वानरपुङ्गव
अदर्शनं च ते वीर भूयो मां दारयिष्यति। दुःखाद् दुःखतरं प्राप्तां दुर्मनःशोककर्शिताम्