ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम्। महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरपन्नगाश्च। भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम्
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे। दग्ध्वा लङ्कापुरीं भीमां रराज स महाकपिः
गृहाग्र्यशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः। प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवार्चिमाली
लङ्कां समस्तां सम्पीड्य लाङ्गूलाग्निं महाकपिः। निर्वापयामास तदा समुद्रे हरिपुङ्गवः
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः
तं दृष्ट्वा वानरश्रेष्ठं हनूमन्तं महाकपिम्। कालाग्निरिति संचिन्त्य सर्वभूतानि तत्रसुः
thumb|पञ्चपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥५-
संदीप्यमानां वित्रस्तां त्रस्तरक्षोगणां पुरीम्। अवेक्ष्य हनुमाँल्लङ्कां चिन्तयामास वानरः
तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत। लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया
धन्याः खलु महात्मानो ये बुद्ध्या कोपमुत्थितम्। निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि। क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति। यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्। अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम्
यदि दग्धा त्वियं सर्वा नूनमार्यापि जानकी। दग्धा तेन मया भर्तुर्हतं कार्यमजानता
यदर्थमयमारम्भस्तत्कार्यमवसादितम्। मया हि दहता लङ्कां न सीता परिरक्षिता
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः। तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी
यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्। इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते
किमग्नौ निपताम्यद्य आहोस्विद् वडवामुखे। शरीरमिह सत्त्वानां दद्मि सागरवासिनाम्
कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्। प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्
धिगस्तु राजसं भावमनीशमनवस्थितम्। ईश्वरेणापि यद् रागान्मया सीता न रक्षिता
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः। तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्। भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः
इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे। पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत्
अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा। न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते