पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः। अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्। अमरा विजराश्चैव कथं स्यामो निरामयाः
तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च। वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः
उत्पपाताग्निसंकाशं हालाहलमहाविषम्। तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्
अथ देवा महादेवं शङ्करं शरणार्थिनः। जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः। प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः
उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः। दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्
तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्। अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत। देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः
हालाहलं विषं घोरं संजग्राहामृतोपमम्। देवान् विसृज्य देवेशो जगाम भगवान् हरः
ततो देवासुराः सर्वे ममन्थू रघुनन्दन। प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः
ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम्। त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि। इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः
पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः। पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः। अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्
उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः। पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः
अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्। असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः। अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः
वरुणस्य ततः कन्या वारुणी रघुनन्दन। उत्पपात महाभागा मार्गमाणा परिग्रहम्
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्। अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः। हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्। उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्
अथ तस्य कृते राम महानासीत् कुलक्षयः। अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्
एकतामगमन् सर्वे असुरा राक्षसैः सह। युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः। अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्
ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्। सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना
अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे। अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्