यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः। अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः। भवनाग्रेषु लङ्काया विचचार महाकपिः
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। अग्निं तत्र विनिक्षिप्य श्वसनेन समो बली
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्। मुमोच हनुमानग्निं कालानलशिखोपमम्
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महातेजाः सारणस्य च धीमतः
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः। जम्बुमालेः सुमालेश्च ददाह भवनं ततः
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च
करालस्य विशालस्य शोणिताक्षस्य चैव हि। कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः। यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च
वर्जयित्वा महातेजा विभीषणगृहं प्रति। क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः
तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धिमतामृद्धिं ददाह कपिकुञ्जरः
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्। आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते। मेरुमन्दरसंकाशे नानामङ्गलशोभिते
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्। ननाद हनुमान् वीरो युगान्तजलदो यथा
श्वसनेन च संयोगादतिवेगो महाबलः। कालाग्निरिव जज्वाल प्रावर्धत हुताशनः
प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयन्। तानि काञ्चनजालानि मुक्तामणिमयानि च
भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च। तानि भग्नविमानानि निपेतुर्वसुधातले
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये। संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम्
स्वे स्वे गृहपरित्राणे भग्नोत्साहोज्झितश्रियाम्। नूनमेषोऽग्निरायातः कपिरूपेण हा इति
क्रन्दन्त्यः सहसा पेतुः स्तनंधयधराः स्त्रियः। काश्चिदग्निपरीताङ्ग्यो हर्म्येभ्यो मुक्तमूर्धजाः
पतन्त्योरेजिरेऽभ्रेभ्यः सौदामन्य इवाम्बरात्। वज्रविद्रुमवैदूर्यमुक्तारजतसंहतान्
विचित्रान् भवनाद्धातून् स्यन्दमानान् ददर्श सः। नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा
हनूमान् राक्षसेन्द्राणां वधे किंचिन्न तृप्यति। न हनूमद्विशस्तानां राक्षसानां वसुन्धरा
हनूमता वेगवता वानरेण महात्मना। लङ्कापुरं प्रदग्धं तद् रुद्रेण त्रिपुरं यथा
ततः स लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः। प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवतोपसृष्टः
युगान्तकालानलतुल्यरूपः समारुतोऽग्निर्ववृधे दिवस्पृक्। विधूमरश्मिर्भवनेषु सक्तो रक्षःशरीराज्यसमर्पितार्चिः
आदित्यकोटीसदृशः सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन्। शब्दैरनेकैरशनिप्ररूढै- र्भिन्दन्निवाण्डं प्रबभौ महाग्निः
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः। निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः