उत्पपाताथ वेगेन ननाद च महाकपिः। पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम्
विभक्तरक्षःसम्बाधमाससादानिलात्मजः। स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान्
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्। विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्। स तं गृह्य महाबाहुः कालायसपरिष्कृतम्। रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः
स तान् निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम्। प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशितादित्य इवार्चिमाली
thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥५-
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः। वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्। यदेषां रक्षसां भूयः संतापजननं भवेत्
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्। अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः। अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः। भवनाग्रेषु लङ्काया विचचार महाकपिः
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। अग्निं तत्र विनिक्षिप्य श्वसनेन समो बली
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्। मुमोच हनुमानग्निं कालानलशिखोपमम्
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महातेजाः सारणस्य च धीमतः
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः। जम्बुमालेः सुमालेश्च ददाह भवनं ततः
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च
करालस्य विशालस्य शोणिताक्षस्य चैव हि। कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः। यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च
वर्जयित्वा महातेजा विभीषणगृहं प्रति। क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः
तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धिमतामृद्धिं ददाह कपिकुञ्जरः
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान्। आससादाथ लक्ष्मीवान् रावणस्य निवेशनम्
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते। मेरुमन्दरसंकाशे नानामङ्गलशोभिते
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम्। ननाद हनुमान् वीरो युगान्तजलदो यथा
श्वसनेन च संयोगादतिवेगो महाबलः। कालाग्निरिव जज्वाल प्रावर्धत हुताशनः
प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयन्। तानि काञ्चनजालानि मुक्तामणिमयानि च
भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च। तानि भग्नविमानानि निपेतुर्वसुधातले
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये। संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम्